________________
प्रकरणम् ४० ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६१३
स्तात्तु । (५-३-६८) ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताद्वहुज्वा स्यात्स च प्रागेव, न तु परतः । ईषदूनः पटुः बहुपटुः । पटुकल्पः । 'सुपः ' किम् - यजति'स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते' इति वचनात् प्रकृतिलिङ्गत्वं बोध्यम् । पचतिकल्पमिति । श्रसंपूर्णा पाकक्रियेत्यर्थः । पचतिरूपमितिवल्लिङ्गवचननिर्वाहः । एवं वृषभकल्प इयं गौरित्यादावपि प्रकृतिलिङ्गत्वं बोध्यम् । 'क्वचित् स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते' इति वचनाद् गुडकल्पा द्राक्षुत्यादौ प्रकृतिलिङ्गातिक्रमः । एतत्सर्वमत्रैव भाष्ये स्पष्टम् । विभाषा । ' ईषदसमाप्तौ ' इत्यनुवर्तते । तदाह ईषदसमाप्तिविशिष्ट इति । प्रागेवेति । सूत्रे तुशब्दोऽवधारण इति भावः । बहुपटुरिति । पटुशब्दात् सुबन्तात् प्राग् बहुचि कृते प्रातिपदिकावयवत्वात् सुपो लुकि समुदायात् पुनः सुबुत्पत्तिः । नच तद्धितान्तत्वाभावात् समासत्वाभावाच्च पूर्वोत्पन्न सुब्विशिष्टस्य प्रातिपदिकत्वाभावात् कथमिह लुगिति वाच्यम्, 'अर्थवत् ' इत्यनेन तस्य प्रातिपदेकत्वसत्त्वात् पटुरित्यस्य पूर्वोत्पन्न सुप्प्रत्ययान्तत्वेऽपि बहुपटुरिति समुदायस्य प्रत्ययान्तत्वाभावात् प्रत्ययग्रहणे यस्मात् स विहितस्तदादेरेव ग्रहणात् । नचैवं सति ‘कृत्तद्धित-' इत्यत्र समासग्रहणं व्यर्थमिति वाच्यम्, पदघटित संघातस्य चेत् प्रातिपदिकसंज्ञा तर्हि समासस्यैवेति नियमार्थत्वात् । नचैवं सति प्रकृते बहुपटुरिति समुदायस्य पूर्वोत्पन्नसुब्विशिष्टस्य कथं प्रातिपदिकत्वम् श्रसमासत्वादिति वाच्यम्, यत्र संघाते पूर्वो भागः पदं तस्य चेत् प्रातिपदिकसंज्ञा तर्हि समासस्यैवेति नियमशरीराभ्युपगमाद् इति प्रागुक्तं न विस्मर्तव्यम् । नच 'समर्थानाम्' इत्यत्र वाग्रहणादेव सिद्धे विभाषाग्रहणं व्यर्थमिति वाच्यम्, बहुजभावपक्षे पूर्वसूत्रविहितकल्पबाद्यर्थत्वात् । अन्यथा महाविभाषया ‘अपवादेन मुक्ते उत्सर्गस्य न प्रवृत्तिः' इति सिद्धान्ताद् बहुकल्पमित्यादावपि बोध्यम् । विभाषा सुपः । सूत्रे 'सुपः' इति षष्ठयन्तम् । ‘षष्ठ्यतसर्थप्रत्ययेन' इत्युक्तेः । सुबन्तादिति । एतच्च पञ्चम्यन्तमुक्तमेव । पुरस्ताच्छब्दपर्यायस्य प्रागितिशब्दस्य वृत्तौ प्रयुक्तत्वात् । प्रागित्यपकृष्यत इति तु मनोरमायां स्थितम् । न च सूत्रस्थपुरस्ताच्छब्दसमानार्थक प्राक्शब्दयोगेऽपि ' षष्ठ्यतसर्थ -' इति षष्ठी स्यादिति वाच्यम् । 'अन्यारात् -' इति सूत्रेऽञ्चूत्तरपदस्य दिक्शब्दत्वेऽपि ' षष्ठ्यतसर्थप्रत्ययेन' इत्येतद्बाधनार्थं पृथग्ग्रहणमिति सिद्धान्तयित्वा प्राक् प्रत्यग्वा ग्रामादित्युदाहृतत्वात् । काशिकायां तु वृत्तावपि पुरस्ताच्छब्दः प्रयुक्तः, सुबन्तादिति च प्रयुक्तम्, तदसमञ्जसमिति मत्वा हरदत्तेन कथंचित् समर्थितम् । ल्यब्लोप एषा पञ्चमी । एवंभूतं प्रकृतित्वेनाश्रित्येत्यर्थ इति । प्रागेवेति । सौत्रस्तुशब्दोऽवधारणे वर्तत इति भावः । तेन च बहुजेव विकल्प्यते, न तु पूर्वत्वम् । तुशब्दाभावे तु प्राक्त्वं