________________
६१४ ] सिद्धान्तकौमुदी। [तद्धितेषु प्रागिवीयकल्पम् । २०२४ प्रकारवचने जातीयर् । (५-३-६६) प्रकारवति चायम् , थाल् तु प्रकारमात्रे । पटुप्रकारः । पटुजातीयः। २०२५ प्रागिवात्कः। (५-३-७०) 'इवे प्रतिकृती' (सू २०५१) इत्यतः प्राक्काधिकारः । २०२६ जभावे वाक्यमेव स्यात् । नच कल्पबादीनां बहुचा समानविषयकत्वान्निरवकाशत्वं शङ्कथम् , तेषां तिङन्ते सावकाशत्वाद् इति भाष्ये स्पष्टम् । एतदभिप्रेत्याह पटुकल्प इति । ननु सुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तादिह सुग्रहणं व्यर्थमिति पृच्छति सुपः किमिति । 'तिङश्च' इत्यनुवृत्तिनिवृत्त्यर्थ सुब्ग्रहणम् । नच अस्वरितत्वादेव तदनुवृत्तिर्न भविष्यति इति वाच्यम् , 'अव्ययसर्वनाम्नाम्-' इत्याद्युत्तरसूने तिङश्चेत्यनुवृत्तेरावश्यकतया तस्य स्वरितत्वावश्यकत्वादिति भाष्ये स्पष्टम् । एतदभिप्रेत्याह यजतिकल्पमिति । तुग्रहणं तु 'स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते, क्वचिदतिवर्तन्ते' इति ज्ञापनार्थम् इति भाष्ये प्रपञ्चितम् । प्रकारवचने । 'प्रकारवचने थाल्' इत्यतोऽस्य वैलक्षण्यमाह प्रकारवति चायमिति । प्रकारवत्येवेत्यर्थः । थाल् तु प्रकारमात्र इति । वस्तुतस्तु उभयमपि प्रकारवतीति न्याय्यम् , अविशेषात् । अन्यथा तथेत्यत्र स प्रकार इत्येवार्थः स्यात् । नच किमादिभ्यो विशिष्य विहितेन थाला जातीयगे वाधात् तजातीयः इत्याद्यसिद्धिरिति वाच्यम् , 'जात्यन्ताच्छ बन्धुनि' इति तज्जात्यादिशब्दात् छप्रत्ययेनैव तज्जातीयादिसिद्धः। अत एव यथाजातीयक इत्यादिभाष्यप्रयोगाः संगच्छन्ते। जयादित्यस्तु अत्र प्रकारः भेदः, थाल्विधौ सामान्यस्य भेदको विशेषः प्रकार इत्याह । वामनस्तु सादृश्यं भेदश्चेत्युभयमपि प्रकार इत्याह । प्रागिवात्कः । इवशब्दस्तद्धटितविकल्प्येत । तथा च पक्षे बहुच् परः स्यात् । भाष्यकारस्य मते तु नेदं तुशब्दस्य फलम् । तथाहि-'उदश्वितोऽन्यतरस्याम्' इत्यादौ प्रधानत्वात्प्रत्यय एव विकल्प्यते, न तु परत्वम् , प्रत्यय एव हि परत्वविशिष्टो विधीयत इति विशेषणस्य गुणत्वात् । 'गुणानां च परार्थत्वात्' इति न्यायात् । तद्वदिहापि विभाषाग्रहणेन बहुजेव संभन्स्यते, न पुरस्तादित्येतत् । तुशब्दस्य तु अवधारणार्थस्यान्यदेव प्रयोजनं पुरस्तादेव सर्व यथा स्यादिति । तेन लिङ्गसख्ये अपि प्राक् प्रत्ययोत्पत्तेः प्रकृत्यवस्थायां ये दृष्टे ते एव स्तः । बहुचः प्रयोगश्च प्राक् प्रकृतेरेव भवतीति । तेन 'बहुगुडो द्राक्षा', 'लघुर्बहुतृणं नरः' इत्यादौ प्रकृतिवल्लिङ्गमेव भवति, न त्वभिधेयवल्लिङ्गम् । ननु 'खार्थिकाः प्रकृतितो लिङ्गवचनानि लभन्ते' इत्येव सिद्धमिति किमनेन तुशब्दग्रहणेनेति चेत् । अत्राहुः- एतदेव ज्ञापयति 'ईषदसमाप्तौ ये स्वार्थिकास्तेष्वभिधेयवदेव लिङ्ग. वचने स्तः' इति । तेन गुडकल्पा द्राक्षा शर्कराकल्पो गुड इत्यादि सिद्धम् । प्रागि