________________
प्रकरणम् ४० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६१५ अव्ययसर्वनाम्नामकच्याक्टेः । (५-३-७१) 'तिङश्च' (सू २००२) इत्यनुवर्तते । २०२७ कस्य च दः । (५-३-७२) कान्ताव्ययस्य दकारोsन्तादेशः स्यादकच्च। २०२८ अशाते । (५-३-७३) कस्यायमश्वोऽश्वकः । उच्चकैः । नीचकैः । सर्वके । विश्वके । 'श्रोकारसकारभकारादौ सुपि सर्वनाम्नष्टः प्रागकच् , अन्यत्र तु सुबन्तस्य टेः प्रागकच् ।' (वा ३२८४ ) युवकयोः । सूत्रपर इति मत्वाह इवे प्रतीति । अव्ययसर्वनाम्नाम् । अनुवर्तत इति । मण्डूकप्लुत्येति शेषः । अव्ययसर्वनाम्नां तिङन्तानां च टेः प्राक् अकच्प्रत्ययः स्यादित्यर्थः । अकचि ककारादकार उच्चारणार्थः। चकार इत् । ककारान्तः प्रत्ययः । अयमपि प्रागिवादधिकारः । कस्य च दः । पूर्वसूत्रे 'अव्ययसर्वनाम्नाम्-' इति समासनिर्देशेऽपि एकदेशे स्वरितत्वप्रतिज्ञाबलाद् अव्ययग्रहणमेवात्रानुवर्तते । कस्य इत्यत्र ककारादकार उच्चारणार्थः । ककारस्येति विवक्षितम् । तेनाव्ययस्य विशेषणात् तदन्तविधिः । तदाह कान्ताव्ययस्येति । अकञ्चेति । चकारेण तदनुकर्षादिति भावः । एतेन अकसंनियोगशिष्ट एवायं दकार इत्युक्तं भवति । अयमपि प्रागिवाद. धिकारः । अज्ञाते । अज्ञातेऽर्थे विद्यमानात् सुबन्तात्स्वार्थे कप्रत्ययः स्यात् । अव्यय. सर्वनाम्नां तिङन्तानां च टेः प्राक् अकच् स्यात् । तत्रापि ककारान्ताव्ययानां दकारो. ऽन्तादेशः स्यादित्यर्थः । कस्यायमिति । स्यादित्यर्थः। अज्ञातत्वाभिनयोऽयम् । अज्ञातोऽश्व इति विग्रहः । उच्चकैरिति । उच्चैरित्यव्ययस्य टेः प्रागकच् । सर्वके विश्वक इति । ननु 'अव्ययसर्वनाम्नाम्-' इति सूत्रे सुप इत्यनुवृत्तः सुबन्तानां सर्वनाम्नां टेः प्रागकजिति फलितम् । तथा सति युवयोः आवयोः, युष्मासु अस्मासु, युष्माभिः अस्माभिः, इत्यत्र सुबन्तानां टेः प्रागकचि युवकयोः श्रावकयोः, युष्मकासु अस्मकासु, युष्मकाभिः अस्मकाभिः, इति न स्युः। युवयकोः आवयकोः, युष्मा. सकु अस्मासकु, युष्माभकिः अस्माभकिः, इति स्युः। यदि तु सुप इत्यननुवर्त्य प्रातिपदिकादित्येवानुवर्त्य प्रातिपदिकादेव सर्वनाम्नां टेः प्रागकजित्यर्थः स्यात्, तर्हि वात्कः । 'सुपः' इत्यनुवर्तते तेन तिङन्तात्को न । अव्ययसर्वनानाम् । अनुवर्तत इति । मण्डूकप्लुत्येति भावः । 'ड्याप्प्रातिपदिकात्' 'सुपः' इति चानुवर्तत एव । कस्य च दः। कान्ताव्ययस्येति । सर्वनामग्रहणं तिङ्ग्रहणं च नेह संबध्यते, तयोः कान्तत्वासम्भवात् । न चाधोक् अधोगित्यादौ सम्भवोऽस्तीति वाच्यम् । कत्वस्यासिद्धत्वात् । यद्यपि शक्नोतेर्यङ्लुकि लङि तिपि शाशक् इति सम्भवति, तथापि यङ्लुकोऽसार्वत्रिकत्वानेशं लक्ष्यमस्ति । छन्दसि क्वचिल्लक्ष्यसद्भावेऽपि 'सर्वे विधयश्छन्दसि वा विधीयन्ते' इति दत्वविधिर्न प्रवर्तत इति भावः ।