________________
सिद्धान्तकौमुदी। [तद्धितेषु प्रागिवीयश्रावकयोः । युष्मकासु । अस्मकासु । युष्मकाभिः । अस्मकाभिः। 'अोकारइत्यादि' किम्-स्वयका । मयका । 'अकप्रकरणे तूष्णीमः कां वक्तव्यः' (वा ३२८५)। मित्त्वादन्यादचः परः । तूष्णीकामास्ते । 'शीले को मलोपश्च' (वा ३२८६) । तूष्णींशीलः तूष्णीकः । पचतकि । जल्पतकि धकित् । हिरकुत्। त्वयका मयकेति न स्यात् । त्वकया मकया इति स्यादित्यत प्राह अोकारेति । वार्तिकमिदम् । ओकारादौ सकारादौ भकारादौ च सुपि सर्वनाम्नष्टेः प्रागकच् , अन्यत्र तु सुबन्तस्यैव सर्वनाम्नष्टेः प्रागकजित्यर्थः । इदं तु वातिक युष्मदस्मन्मात्रविषयकमेव, भाष्ये तथैवोदाहृतत्वात् । अन्येषां तु सर्वनाम्नां प्रातिपदिकस्यैव टेः प्रागकच् , नतु सुबन्तानाम् । तेन सर्वकेणेत्यादि सिद्धम् । अत एव 'विभक्तौ परतो विहितः किमः कादेशः साकच्कार्थः। कः कौ के' इति भाष्यं रागच्छते। त्वयका मयकेति । इह त्वया मयेति सुबन्तयोष्टेः प्रागकच् । प्रातिपदि कस्य टेः प्रागकवि तु त्वकया मकयेति स्यादिति भावः । कां वक्तव्य इति । काम् प्रत्यय इति वृत्तिस्तु चिन्त्या, भाष्ये प्रत्ययशब्दस्यादर्शनात् । किं तु मित्त्वादागम एवायम् । तदाह मित्त्वादिति । अकचोऽपवादः । तूष्णीकामिति । तृष्णीनित्यव्ययस्य ईकारादुपरि का इत्याकारान्त आगमः । शील इति । इदमपि वार्तिकम् । तूष्णीम् इत्यव्ययात् कप्रत्ययः स्याद् मकारस्य लोपश्च शीले गम्य इत्यर्थः । शीलं स्वभावः । तूष्णीक इति । मौनस्वभाव इत्यर्थः । भाष्ये दीर्घस्यैव प्रयोगदर्शनात् 'केऽणः' इति ह्रस्वो न भवति । 'अव्ययसर्वनाम्नाम्-' इत्यत्र तिङश्चेत्य नुवृत्तेः प्रयोजनमाह पचतकीति । पचतीत्यत्र इकारात् प्रागकच । ककारादकार उच्चारणार्थः । अन्यथा इकारात्प्राग् अकच्प्रत्यये श्राद्गुणे पचतके इति स्यादिति भावः । जल्पतकीति । जल्पतीत्यस्य टेः प्रागकच् । धकिदिति । धिक् इत्यव्ययस्य टेः प्रागकच् , कस्य ओकारेति । अकज्विधौ सुपोऽप्यनुवृत्त्या सर्वनाम्ना सुपा च टेर्वेशेषणे कामचाराद् अव्यवस्थाप्रसङ्गे भाष्यकारवचनाद्यवस्थाश्रीयते । ओकारसकार इत्यादिसंकोचश्च युष्मदस्मन्मात्रविषयकः । तथैव भाष्ये उदाहृतत्वात् । अन्येषां त्वविशेषेण प्रातिपदिकस्यैव टेः प्रागकच्, न सुबन्तस्य । तेन सर्वकेण इमकेण भवकन्तमित्यादि सिध्यति । त्वयका, मयकेति । नन्वत्र सुपः प्रागकचि कृते, प्रत्यये परतस्त्वामादेशयोः सतोरपि 'योऽचि' इति यत्वं न स्यात् , विभक्तिपरत्वाभावादिति चेत् । मैवम् , अकृतव्यूहपरिभाषाया अनित्यतामाश्रित्याकचः पूर्वमेव यत्वविधानात् । एवं युवकामामकामित्यत्राप्यकचः पूर्वमेव युवावादेशाविति बोध्यम् । शीले क इति । शीलं स्वभावो नियमश्च । तूष्णीक इति । 'केऽणः' इति ह्रस्वस्तु भाष्यकारप्रयोगाद् 'न कपि' इत्यत्र 'न' इति