________________
प्रकरणम् ४०] बालमनोरमा-तत्त्वबोधिनीसहिता। [६१७ २०२६ कुत्सिते । (५-३-७४) कुत्सितोऽश्वोऽश्वकः । २०३० संज्ञायां कन् । (५-३-७५) कुत्सिते कन्स्यात्तदन्तेन चेत्संज्ञा गम्यते । शूद्रकः । राधकः । स्वरार्थ वचनम् । २०३१ अनुकम्पायाम् । (५-३-७६) पुत्रकः। अनुकम्पितः पुत्र इत्यर्थः । २०३२ नीतौ च तद्युक्तात् । (५-३-७७) सामदानादिरूपा नीतिः । तस्यां गम्यमानायामनुकम्पायुक्नात्कप्रत्ययः स्यात् । हन्त ते धानकाः । गुडकाः । एहकि । अद्धकि । पूर्वेणानुकम्प्यमानात्प्रत्ययः । दश्च । हिरकुदिति । हिरुगित्यव्ययस्य टेः प्रागकच् कस्य दश्च । कुत्सिते । येन धर्मेण कुत्स्यते वस्तु तद्धर्मयुक्तार्थाभिधायिनः प्रातिपदिकात्स्वार्थे प्रत्ययः स्यादित्यर्थः । अव्ययसर्वनाम्नस्तु टेः प्रागकच् , कान्तस्याव्ययस्य दकारश्चान्तादेश इति बोध्यम् । 'तिङश्च' इत्यप्यनुवर्तते । अश्वक इति । धावनस्य असम्यक्त्वादश्वस्य कुत्सा बोध्या । सर्वनामाव्ययतिङन्तानि पूर्ववदुदाहार्याणि । 'याप्ये पाशप्' इति प्रवृत्तिनिमित्तकुत्सायामेव भवति । इदं तु सूत्रमप्रवृत्तिनिमित्तकुत्सायामपि इति भाष्ये स्पष्टम् । संज्ञायां कन् । 'कुत्सिते' इत्यनुवर्तते । तदाह कुत्सित इति । तदन्तेन चेदिति । कुत्साहतुकसंज्ञाविषये कनिति यावत् । अनुकम्पायाम् । अनुकम्पायुक्तार्थाभिधायिनः स्वार्थे कः स्यादित्यर्थः । अनुकम्पा दया । नीतौ च तद्युक्तात्। सामदानादीति । श्रादिना भेददण्डयोर्ग्रहणम् । तद्युक्तादित्येतद्व्याचष्टे अनुकम्पायुक्तादिति । 'अव्ययसर्वनाम्नां' 'टेः प्राक्' इति चानुवर्तते, 'कस्य च दः' इति च । हन्त ते धानका इति। दास्यन्ते इति शेषः । हन्तेत्यव्ययमनुकम्पादोतकम् । 'हन्त हर्षेऽनुकम्पायाम्' इत्यमरः । हन्तेत्यदन्तम् । हे पुत्रेति शेषः। अनुकम्पायुक्ता धाना इत्यर्थः । धानाशब्दात् कप्रत्यये 'केऽणः' इति ह्रस्वे कान्तात् टापि 'प्रभाषितपुंस्काच' इति विकल्पात् पक्षे इत्त्वाभावः । एहकीति । एहीति तिङन्तस्य टेः प्रागकच । 'अव्ययसर्वनाम्नाम्-' इत्यत्र 'तिङश्च' इत्यनुवृत्तेरिति भावः । योगविभागाद्वा न भवतीत्याहुः । अकचो द्वितीयः प्रकार उच्चारणार्थ इति ध्वनयन्नुदाहरति पचतकीत्यादि। अनुकम्पायाम् । 'कृपा दयाऽनुकम्पा स्यात्' इत्यमरः। नीतौ च तद्युक्तात् । अनुकम्पायुक्तादिति । यद्यपि पुत्रादिरेव साक्षादनुकम्पायुक्तो न तु धानादिः, तथापि तद्वारा धानादीनामप्यस्त्यनुकम्पासम्बन्ध इति भावः । धानका इति । धानाशब्दः स्त्रीलिङ्गः । ततः कः 'केऽणः' इति ह्रस्वः । कप्रत्ययान्ताटाप् । अत्र 'प्रत्ययस्थात्-' इतीत्वेन भाव्यम् । प्रायेण तु धानका इति पठ्यते । तत्र लिङ्गातिवृत्तिर्द्रष्टव्येति हरदत्तः । 'कर्मव्यतिहारे णच स्त्रियाम्' इति सिद्धे 'णचः स्त्रियामञ्' इति सूत्रे पुनः स्त्रीग्रहणेन ज्ञापितं 'खार्थिकाः प्रकृतिलिजात्वचिदतिवर्तन्ते'