________________
६१८ ] सिद्धान्तकौमुदी। तद्धितेषु प्रागिवीयअनेन तु परम्परासंबन्धेऽपीति विशेषः । २०३३ बह्वचो मनुष्यनाम्नष्ठज्वा । (५-३-७८) पूर्वसूत्रद्वयविषये । २०३४ घनिलचौ च (५-३-७६) तत्रैव । २०३५ ठाजादावू द्वितीयादचः । (५-३-८३) अस्मिन् प्रकरणे यष्ठोऽजादिप्रत्ययश्च तस्मिन्प्रत्यये परे प्रकृतद्वितीयादच उर्ध्व सर्व लुप्यते । अनुकम्पितो देवदत्तो देविकः, देवियः, देविलः, देवदत्तकः । अनुकम्पितो वायुदत्तो वायुकः । ठग्रहणमुको द्वितीयस्वे कविधानार्थम् । वायुकः । पितकः । 'चतुर्थादच अद्धकीति । अद्धीति तिङन्तस्य टेः प्रागकच् । पूर्वेणेति । 'अनुकम्पायास्तद्विषयत्वादिति भावः । परम्परासम्बन्धेऽपीति । पुत्रः साक्षाद नुकम्प्यः तद्वारा धाना अनुकम्पायुक्ता इति भावः । बह्वचो मनुष्य । ठजिति च्छदः । पूर्वसूत्रद्वयविषय इति शेषपूरणम् । 'अनुकम्पायाम्' इति 'नीतौ च तद्युक्तात्' इति च सूत्रद्वयविषये बह्वचो मनुष्यनाम्नः प्रातिपदिकात् ठज्वा स्यादित्यर्थः । पत्ते कः । घनिलचौ च। तत्रैवेति । शेषपूरणमिदम् । 'बह्वच-' इति पूर्वसूत्रविषये इ यर्थः । 'अनुकम्पायाम्' इति 'नीतौ च तद्युक्तात्' इति च सूत्रद्वयविषये बह्वचो मनुष्ट नाम्नो घन् इलच् एतौ च प्रत्ययावित्यर्थः । ठाजादौ । अस्मिन्प्रकरण इति । 'अनुकम्पायाम्' 'नीतौ च' इत्यस्मिन्प्रकरण इत्यर्थः । संनिधानलभ्यमिदम् । सर्वमिति ऊध्वग्रहणादिदं लभ्यते । अन्यथा 'श्रादेः परस्य' इति परिभाषया द्वितीयाचो यः परः तस्यादेरेव स्यादिति भावः । 'अजिनान्तस्योत्तरपदलोपश्च' इत्यतो 'लोप' इत्यनुवृत्तमिह कर्मसाधनमाश्रीयत इति मत्वाह लुप्यत इति । देविक इति । देवदत्तशब्दात् ठचि द्वितीयादचः परस्य दत्तशब्दस्य लोपे इकादेशे रूपम् । देविय इति । देवदत्तशब्दाद् घनि दत्तशब्दस्य लोपे इयादेशे रूपम् । देविल इति । इलचि दत्तशब्दस्य लोपः । देवदत्तक इति । कप्रत्यये सति ठाजायभावान दत्तपदलोपः । वायुक इति । वायुदत्तशब्दाद् दत्तशब्दस्य लोपः । उकः परत्वात् ठस्य इति । तेन धानका इत्यत्र पुंस्त्वमिति भावः । घनिलचौ च । चकाराद्यथाप्राप्तमिति काशिका । इह पूर्वसूत्रेणैव ठञ् विहितः । वावचनात्कोऽपि । चकारेण तु कस्याभ्यनुज्ञेति चिन्त्यम्। योगविभागे फलभपि चिन्त्यमिति हरदत्तः । ठाजादौ । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । आदिग्रहणं चिन्यप्रयोजनम् , 'यस्मिन्विधिस्तदादौ-.' इत्येव सिद्धमिति हरदत्तः । अस्मिन्प्रकरण इति । अनुकम्पायां नीती चेत्यर्थद्वयस्यैव प्रत्यासत्त्या बुद्धौ सन्निधानादिति भावः । ऊर्ध्वग्रहणमिह सर्वलोपार्थम् । अन्यथा 'आदेः परस्य' इत्यादेरेव स्यादित्यभिप्रेत्याह द्वितीयादच ऊर्ध्वं सर्वमिति । 'अजिनान्तस्य-' इत्यतो लोप इत्यनुवर्तनादाह लुप्यत इति । ननु ठग्रहणं व्यर्थम् , इकादेशे कृते