________________
प्रकरणम् ४० ]
बालमनोरमा तत्त्वबोधिनीसहिता ।
[ ६१६
ऊर्ध्वस्य लोपो वाच्यः' (वा ३२६६) । अनुकम्पितो बृहस्पतिदत्तो बृहस्पतिकः । 'अनजादौ च विभाषा लोपो वक्तव्यः' ( वा ३२१७ ) । देवदत्तकः, देवकः । 'लोपः पूर्वपदस्य च ' ( वा ३२६८ ) । दत्तिकः, दत्तियः, दत्तिलः, दत्तकः । 'विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वक्तव्य:' ( वा ३२६६ ) देवदत्तः, दत्तः, देवः । सत्यभामा, भामा, सत्या । 'उवर्णांल्ल इलस्य च ' ( वा ३३०२ ) । भानुदत्तः, भानुलः । 'ऋवर्णादपि' ( वा ५०५४ ) । सवित्रियः । सवितृलः । 'चतुर्थादनजादौ वो लोपः पूर्वपदस्य च ।
श्रप्रत्यये तथैवेष्ट उवर्णाल इलस्य च ॥'
कः । नन्विकादेशे सति देविक इत्यत्र अजादित्वादेव सिद्धे ठग्रहणं व्यर्थमित्यत आह उग्रहणमिति । कृत एव ठग्रहणे वायुशब्दात्परस्य दत्तशब्दस्य ठावस्थायामेव नित्यत्वाद् लोपे कृते ठस्य उकः परत्वात्कादेशः सिध्यति । अन्यथा इकादेशे कृते अजादित्वं पुरस्कृत्य दत्तशब्दस्य लोपे सति वायु इक इति स्थिते ठस्याभावात् कादेशो न स्यात् । नच स्थानिवत्त्वादिकस्य ठत्वं शङ्कयम्, 'ठस्येकः' इत्यत्र स्थान्यादेशयोरकार उच्चारणार्थ इति पक्षे अविधित्वात् सन्निपातपरिभाषाविरोधाचेति भाष्ये स्पष्टम् । पितृक इति । पितृदत्तशब्दात् ठचि दत्तशब्दस्य लोपे उकः परत्वात् ठस्य कः । अथ
'चतुर्थादनजादौ वा लोपः पूर्वपदस्य च ।
अप्रत्यये तथैवेष्ट उवर्णाल्लि इलस्य च ॥'
इति वक्ष्यमाणश्लोकवार्तिकं भक्त्वा चतुर्थादच इत्येतद्याचष्टे चतुर्थादच ऊर्ध्वस्य लोपो वाच्य इति । बृहस्पतिक इति । बृहस्पतिदत्तशब्दात् ठचि दत्तशब्दस्य लोपे ठस्य इकादेशः । द्वितीयादूर्ध्वत्वाभावादप्राप्ते वचनम् । श्रजादौ वेति वार्तिकभागं व्याचष्टे अनजादौ च विभाषा लोपो वक्तव्य इति । श्रजादावित्येव सिद्धत्वादत आह ठग्रहणमुको द्वितीयत्व इति । वायुक इति । वायुशब्दात्परस्य दत्तशब्दस्य ठावस्थायामेव लोपे ' इसुसुक्कान्तात् -' इति कः । किंच, पृथक् ठग्रहणस्य प्रयोजनान्तरमप्यस्ति । यदा तु चित्रगुप्रभृतिभ्यष्टच्, तदोगन्तत्वात् कादेशप्राप्त्या प्रथममिकादेशस्याऽसंभवेनाजदिलक्षणो लोपो न स्यादिति तदर्थमपि ठग्रहणम् । तेन ठावस्थायामुत्तरपदलोपे कादेशस्यासम्भवादिकादेशे चित्रिक इति रूपं सिध्यतीति बोध्यम् । ‘चतुर्थादनजादौ च' इति वक्ष्यमाणमेव श्लोकं भङ्क्त्वा व्याचष्टे चतुर्थादच ऊर्ध्वस्येति । अनजादाविति । हलादावित्यर्थः 'अस्मिन प्रकरणे' १ 'च' इति क ।