________________
६२० ] सिद्धान्तकौमुदी। [तद्धितेषु प्रागिवीय
(वा ३२६६-३३००) । २०३६ प्राचामुपादेरडज्युचौ च । (५-३-८०) उपशब्दपूर्वात्प्रातिपदिकात्पूर्वविषये अडच् वुच् एतौ स्तः । चाद्यथाप्राप्तम् । प्राचां ग्रहणं पूजार्थम् । अनुकम्पित उपेन्द्रदत्त उपडः, उपकः, अनजादौ चेति पाठे विभाषेति भाष्यलब्धम्, तत्र देवदत्तको देवक इति कप्रत्यये दत्तलोपविकल्पोदाहरणात् । लोपः पूर्वपदस्य चेति । विभाति शेषः। 'अनजादौ' इति तु नात्र संबध्यते । तदाह दत्तिक इत्यादि । रचि धनि इलचि के च रूपम् । अप्रत्यये तथैवेष्ट इति वार्तिकभागं व्याचष्टे विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वक्तव्य इति । दत्तः, देव इति । देवदत्तशब्दात् ठाजादिप्रत्ययस्याप्यभावे पूर्वोत्तरपदयोः क्रमेण लोपे रूपम् । उवदिति । ल इति लोपस्य पूर्वाचार्यसंज्ञा । उवर्णात्परस्य इलचो लोपः स्यादित्यर्थ । 'आः परस्य' इति इकारस्य लोपः। चकारेण ठाजादौ द्वितीयादच ऊर्ध्व लोप: सूत्रसिद्धः अनू. द्यते। ऋवर्णादपीति । ऋवर्णादपि परस्य इलच प्रादेपिः स्यादित्यर्थः । सवित्रियः सवितृल इति । घनि इलचि च रूपम् । वस्तुतस्तु ऋवर्णादपीति भाष्यादृष्टत्वादुपेक्ष्यम् । तदेवं व्याख्यातं वार्तिकं समस्तं पठति चतुर्थादित्यादि । प्राचामुपादेरडज्युचौ च । पूर्वविषय इति । 'बह्वचो मनुष्यनाम्नः-' इति सूत्रविषये इत्यर्थः । चाद्यथाप्राप्तमिति । ठच् , घन् , इलच्छेत्यर्थः । ठज्वेत्यतो वेत्यनुवृत्त्यैव सिद्ध 'प्राचाम्' ग्रहणं व्यर्थमित्यत आह प्राचांग्रहणमिति । उपड इति । उपेन्द्रदत्तशब्दाद् अडचि द्वितीयं सन्ध्यक्षरमिति वक्ष्यमाणेन एकारादेर्लोप इति केचित् । 'नेन्द्रस्य परस्य' इति ज्ञापकेन पूर्वोत्तरपदनिमित्तकापेक्षया अन्तरङ्गस्याप्येकादेशस्य पूर्वमप्रवृत्तेरिकारादिलोप इति शब्देन्दुशेखरे। उपक इति । वुचि इत्येव । लोपः पूर्वपदस्य चेति । ठाजादावनजादौ चेति बोध्यः । 'अप्रत्यये तथेवेष्टः' इत्येतद्वयाचष्टे विनापि प्रत्ययमिति । ल इलस्य चेति । इलस्य लः लोप इत्यर्थः, तत्र 'आदेः परस्य' इति इकारलोपो बोध्यः । प्राचामुपादेः । 'बह्वचो मनुष्य-' इत्याद्यनुवर्तते । उपेन्द्रदत्त इति । ननु कृतसन्धेरुपेन्द्रशब्दादेकादेशस्य पूर्वान्ततया ग्रहणाद् 'उपादेः' इति विधीयमानौ प्रत्ययौ स्तां नाम, लोपस्तु नकारादेरेव स्यात् । ततश्च उपक उपड इति रूपे न स्याताम् । किं तु उपयक उपयड इति रूपे स्याताम् । एवं घनिलच्छच्स्वपि दोष एव । तस्मादिहैव 'द्वितीयं संध्यक्षरं चेत्' इति वार्तिकं कुतो नोक्तमिति चेत् । अत्राहुः- प्रकारान्तरेण निर्वाहसम्भवान्नोक्तम्। तथाहि-श्राद्गुणे कृते 'द्वितीयं संध्यक्षरम्-' इत्यादिना अकारस्यापि लोपप्रसक्त्या गुणात्पूर्वमेवाकृतव्यूहपरिभाषया प्रत्ययः । न च परिनिष्टितत्वपरेण समर्थग्रहणेन