________________
प्रकरणम् ४०] बालमनारमा-तत्त्वबोधिनीसहिता [६२१ उपियः, उपिलः, उपिकः, उपेन्द्रदत्तकः । षड् रूपाणि । २०३७ जातिनाम्नः कन् । (५-३-८१) 'मनुष्यनाम्नः' इत्येव । जातिशब्दो यो मनुष्यनामधेयस्तस्मात्कन्स्यादनुकम्पायां नीतौ च । सिंहकः । शरभकः । रासभकः । 'द्वितीयं सन्ध्यक्षरं चेत्तदादेर्लोपो वक्तव्यः' (वा ३३०३)। कहोडः, कहिकः। 'एकातरपूर्वपदानामुत्तरपदलोपो वक्तव्यः' (वा ३३०६)। वागाशीर्दत्तो वाचिकः । कथं अकादेशे एकारादिलोपे रूपम् । उपिय इति । घनि रूपम् । उपिल इति । इलचि रूपम् । उपिक इति । ठचि रूपम् । उपेन्द्रदत्तक इति । कप्रत्यये रूपम्। ठाजाद्यभावाल्लोपो न । जातिनाम्नः कन् । जातिशब्दो य इति । यो जातिप्रवृत्तिनिमित्तकः प्रसिद्धः सन् मनुष्यनामधेयभूतः स इत्यर्थः । 'अनुकम्पायाम्' इति 'नीतौ' इति च सूत्रद्वयविहितस्यापवादः। द्वितीयं संध्यक्षरं चेदिति । “एचः संध्यक्षराणि' इति प्राचामाचार्याणां प्रवादः। कहोड इति । ऋषिविशेषस्य नामेदम् । अत्र द्वितीयोऽच् संध्यक्षरम् , तदादेर्लोपः। नतु तदूर्ध्वस्यैव । एकाक्षरेति । व्यञ्जनसहितम् एकोऽच् एकाक्षरम् , एकाच्कमिति यावत् । तथाविधं पूर्वपदं येषां पदानां तानि एकाक्षरपूर्वपदानि, तेषा मध्ये उत्तरभूतानि पदानि यावन्ति तेषां लोपः स्यादित्यर्थः । इह उत्तरपदशब्दो यौगिकः, नतु समासस्य चरमावयवे रूढो व्याख्यानात् । 'द्वितीयादच ऊध्वम्' इत्यनेन द्वितीयाज्विशिष्टस्य लोपे अप्राप्ते वचनमिदम् । वागशीदत्त इति । वाचि आशीः यस्य नतु मनस्येव स वागाशीः । तेन दत्त इति विग्रहः । यद्वा अाशासनमाशीः, वाचा आशीः वागाशीः । 'कर्तृकरणे कृता--' इति समासः । तया वागाशिषा दत्त इति विग्रहः। वाकरणकाशासनेन दत्त इत्यर्थः । वाचिक इति । वागशीर्दत्तशब्दात् ठचि वागित्येकाक्षरपूर्वपदात्परयोराशीदत्तशब्दयोर्लोपे सति अन्तर्वतिविभक्त्या पदत्वमाश्रित्य प्रवृत्तकुत्वजश्त्वयोरिकाश्रयभत्वेन पदत्वबाधान्निवृत्तौ वाचिक इति रूपमिति केचित् । वस्तुतस्तु ठचि सौस्थितिरित्यत्रेव परिभाषाबाधः शङ्कयः, 'प्राग्दिशः-' इति सूत्रे 'समर्थग्रहणं निवृत्तम्' इत्युक्तत्वात् । 'अकृतसंधेः' इति प्रागुक्तज्ञापकबलेन समर्थग्रहणप्रत्याख्यानपक्षेऽपि ज्ञापकस्य विशेषपरत्वाश्रयणादिति । उपेन्द्र उपगुरुरुपकर्तेत्यादिषूपडादीनां पञ्चानां रूपाणां साम्येऽपि सैन्धवादिष्विव प्रकरणादिना विशेषोऽध्यवसेयः । जातिनाम्नः । ये शब्दा जात्यन्तरे प्रसिद्धाः, मनुष्येषु नामत्वेन विनियुक्तास्त इहोदाहरणम्। द्वितीयमित्यादि । एचः संध्यक्षरमिति प्राचां संज्ञा । वागाशीरिति । वाचि प्राशीयेस्येति विग्रहः । वाचिक इति। यद्यत्र द्वितीयादच ऊर्ध्वस्य लोपः स्यात् तदा वाच् आ इक इति स्थिते 'यस्येति च' इत्याकारस्य लोपे तस्य स्थानिवत्त्वादाका.