________________
६२२ ]
सिद्धान्तकौमुदी ।
[तद्धितेषु प्रागिवीय
षडङ्गुलिदत्तः षडिक इति । ' षषष्ठाजादिवचनात्सिद्धम्' ( वा ३३०७ ) । २०३८ शेवल सुपरिविशालवरुणार्यमादीनां तृतीयात्। ( ५-३-८४) एषां मनुष्यनाम्नां ठाजादौ परे तृतीयादच ऊर्ध्व लोपः स्यात् । पूर्वस्यापवादः । अनुकम्पितः शेवलदत्तः शेवलिकः, शेवलियः, शेवलिलः । सुपरिकः । विशालिकः । इकादेशात् प्राक् ठावस्थायामेव उत्तरपदलोपे कर्तव्ये श्रसिद्धत्वान्न पूर्वं कुत्वादिप्रवृत्तिरित्याहुः । यद्यपि द्वितीयादच ऊर्ध्वस्य शीर्दत्तशब्दस्य लोपे वागा इक इति स्थिते 'यस्येति च' इत्याकारलोपे उक्तरीत्या कुत्वजश्त्वयोः निवृत्तौ वाचिक इति सिध्यति । तथापि आकारलोपस्य स्थानिवत्त्वेन आकारान्तस्य इकमाश्रित्य भवे सति आकारान्तनिष्ठभत्वेन चकारान्तनिष्ठपदत्वस्य अव्याघातातू कुत्वजश्त्वयोः वागिक इति स्यात् । उत्तरपदलोपे तु अज्झलादेशत्वेन स्थानिवत्त्वाभावात्तुल्यावधिकया भसंज्ञया 'सुप्तिङन्तम् -' इति पदसंज्ञा बाध्यते, एकसंज्ञाधिकारे परत्वादिति भावः । कथमिति । अत्रापि अङ्गलिदत्तशब्दस्य लोपे सति इकप्रत्ययाश्रितभत्वेन पदत्वाभावाद् जश्त्वं दुर्लभमिति प्रश्नः । षष इति । षष्शब्दस्य पूर्वपदत्वे 'ठाजादौ -' इति सूत्रसिद्धो द्वितीयादच ऊर्ध्वस्यैव लोपः, न त्वयमुत्तरपदलोप इति वचनात् षडिक इति सिद्धमित्यर्थः । एवं च षडङ्गलिदत्त इत्यत्र डकाराकारादूर्ध्वस्य लोपे सति डकाराकारस्य 'यस्येति च' इति लोपे सति तस्य स्थानिवत्त्वेन अकारान्तस्य इकमाश्रित्य भत्वे सति तेन अकारान्तनिष्ठेन षकारान्तस्य पदत्वाव्याघाताजश्त्वं निर्बाधमिति भावः । स्पष्टुं चेदं 'स्वादिषु -' इति सूत्रे भाष्ये । शेवल । एषामिति । शेवल, सुपरि, विशाल, वरुण, अर्यमन् एतत्पूर्वपदका नामित्यर्थः । पूर्वस्येति । 'ठाजादौ -' इत्यस्येत्यर्थः । शेवलिक इति । शेवलदत्तशब्दात् ठचि तृतीयादचः
G
G
रान्तस्य भवे अन्तर्वर्तिनीं विभक्तिमाश्रित्य चकारान्तस्य पदत्वेन कुत्वजश्त्वयोः सतोर्वागिक इति स्यात् । उत्तरपदलोपे तु अज्मलादेशत्वेन स्थानिवत्त्वाभावात्तुल्यावधिकतया ' यचि भम्' इति भसंज्ञया 'सुप्तिङन्तम् -' इति पदसंज्ञा एकसंज्ञाधिकारात्परत्वाद्वाध्यते। 'स्वादिषु-' इति पदसंज्ञा तु न शङ्कनीयैव, 'यचि भम्' इति भसंज्ञायास्तदपवादत्वात् । कथमिति । अत्राप्युत्तरपदलोपे जाते जश्त्वं दुर्लभमिति प्रश्नः । षष इति । अत्र सौत्र एव लोप इष्यते, न त्वौपसंख्यानिक इत्यर्थः । शेवलसुपरि । शेवलिक इति । 'बह्वचो मनुष्यनाम्नः -' इति ठच् । घनिलचोस्तु शेवलियः । शेवलिलः । 'शेवलादीनां तृतीयाल्लोपो य उच्यते स च कृतसंधीनां वक्तव्यः । सुपर्याशीः, सुपरिकः, सुपरियः, सुपरिल इति भाष्ये स्थितम् । कैयटेन तु सुपरिक इति प्रतीकमुपादाय संहिताकार्ये तु कृते लोपे सति सुपर्किक इति स्यादिति व्याख्यातम् ।