________________
प्रकरणम् ४० ] बालमनोरमा तत्त्वबोधिनीसहिता। [६२३ वरुणिकः । अर्यमिकः । २०३६ अजिनान्तस्योत्तरपदलोपश्च । (५-३-८२) अजिनान्तान्मनुष्यनाम्नोऽनुकम्पायां कन् , तस्य चोत्तरपदलोपः । अनुकम्पितो व्याघ्राजिनो व्याघ्रकः । सिंहकः । २०४० अल्पे । (५-३-८५) अल्पं तैलं तैलकम् । २०४१ ह्रस्वे । (५-३-८६) हस्वो वृक्षो वृक्षकः । २०४२ संज्ञायां कन् । (५-३-८७) हस्वहेतुका या संज्ञा तस्यां गम्यमानायां कन् । पूर्वस्यापवादः । वंशकः । वेणुकः । २०४३ कुटीशमीशुण्डाभ्यो रः । (५-३-८८) हस्वा कुटी कुटीरः । शमीरः । शुण्डारः । २०४४ कुत्वा डुपच् । (५-३-८९) हस्वा कुतूः कुतुपः । 'कुतूः कृत्तिस्नेहपात्रं ह्रस्वा सा कुतुपः पुमान् ।' इत्यमरः । २०४५ कासूगोणीभ्यां ष्टरच । (५-३-६०) आयुधविशेषः कासूः । हस्वा सा कासूतरी। गोणीतरी । २०४६ वत्सोक्षाश्वर्षभेभ्यश्च परस्य दत्तशब्दस्य लोपः । शेवलिल इति । इलचि रूपम् । सुपरिक इति । सुपरिदत्तशब्दात् ठचि दत्तशब्दलोपः । विशालिक इति । विशालदत्तशब्दात् ठचि रूपम् । वरुणिक इति । वरुणदत्ताद् वरुणिकः । अर्यमिक इति । अर्यमदत्ताद् अर्यमिकः । 'अकृतसंधीनामेषाम्-' इति वार्तिकं भाष्ये स्थितम् । तेन सुपर्याशीर्दत्तः सुपरिक इत्यादि सिध्यति । अजिनान्तस्य । व्याघ्रक इति । व्याघ्राजिन इति कस्यचिन्मनुष्यस्य नाम । तस्मात् कनि अजिनस्य लोपः । सिंहक इति । सिंहाजिनचब्दात् कनि अजिनस्य लोपः। अल्पे । अल्पत्वविशिष्टे वर्तमानाद् यथाविहितं प्रत्ययाः स्युः । तैलकमिति । सर्वकम् , उच्चकैः, पचतकीत्याद्यप्युदाहार्यम् । ह्रस्वे । हखत्वविशिष्टे वर्तमानाद्यथाविहितं प्रत्यया इत्यर्थः । अल्पत्वं महत्त्वप्रतिद्वन्द्वि, हखत्वं तु दीर्घत्वप्रतिद्वन्द्वीति भेदः । संज्ञायां कन् । वंशक इति । ह्रखस्य वेणुजातिविशेषस्य नाम । कुटीशमी । ह्रख इत्येव । कुटीर इति । 'स्वार्थिकाः क्वचि. प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति पुंस्त्वम् । एवं शमीरः, शुण्डार इत्यपि । ह्रस्वा शमी शुण्डा चेत्यर्थः । कुत्वा डुपच् । कुतुप इति । कुतूशब्दाद् डुपचि डित्त्वाहिलोपः। तत्रापि कुटीरादिवत् स्त्रीत्वमपहाय पुंस्त्वमेव । तत्रामरकोशमपि प्रमाणयति कुतूः कृत्तीति । कासूगोणीभ्यां टरच् । ह्रस्व इत्येव । कासूत. रीति । षित्त्वाद् ङीषिति भावः । 'कासुर्बुद्धे कुवाच्येऽस्त्रे' इति नानार्थरत्नमालायाम् । अयं भावः-संहिताकार्ये यणि कृते तृतीयादच ऊर्ध्वलोपे सति शीर्दत्त इत्यस्यैव लोपः स्यात् , अाकारस्य तु 'यस्येति च' इत्यनेन स्यात्। तथाच स्थानिवद्भावाद्यणो निवृतिर्न भविष्यतीति । हस्खे । तैलादौ ह्रखदीर्घादिव्यवहाराभावाद् वृक्षक इत्युदाहृतम् । यद्यपि 'अल्पे' इत्येनैवेदं रूपं सिध्यति, तथापि शाब्दबोधे विशेषोऽस्तीत्याहुः । कुटीर इति।
-HTHHTHHALI