________________
६२४ ]
सिद्धान्तकौमुदी। [तद्धितेषु प्रागिवीयतनुत्वे । (५-३-६१) वत्सतरः। द्वितीयं वयः प्राप्तः । उक्षतरः। अश्वतरः । ऋषभतरः । प्रवृत्तिनिमित्ततनुत्व एवायम् । २०४७ कियत्तदो निर्धारणे द्वयोरेकस्य डतरच । (५-३-१२) अनयोः कतरो वैष्णवः । यतरः । ततरः। महाविभाषया कः । यः। सः । २०४८ वा बहूनां जातिपरिप्रश्ने एवं गोणीतरीति । वत्सोक्ष । ह्रख इति निवृत्तम् । वत्स, उक्षन् , अश्व, ऋषभ एभ्यस्तनुत्वविशिष्टवृत्तिभ्यः ष्टरच्प्रत्ययः स्यादित्यर्थः। तनुत्वं न्यूनत्वम् । वत्सः प्रथमवयाः । वयसश्च प्रथमस्य तनुत्वम् उत्तरवयःप्राप्त्या ज्ञेयम् , तदाह द्वितीयं वयः प्राप्त इति । उक्षतर इति । उक्षा तरुणो बलीवर्दः । तारुण्यस्य तनुत्वं तृतीयवयःप्राप्त्या ज्ञेयम् । अश्वतर इति । गर्दभेन अश्वायामुत्पादितः अश्वतरः। अश्वतरत्वं च अश्वत्वापेक्षया न्यूनमेव । ऋषभतर इति । ऋषभो भारस्य वोढा । तस्य तनुत्वं भारोद्वहने मन्दशक्तिता, तद्वानित्यर्थः । ननु कृशो वत्सो वत्सतर इति कुतो नेत्यत आह प्रवृत्तिनिमित्ततनुत्वे एवायमिति । एतच्च भाष्ये स्पष्टम् । किंयत्तदो निर्धारणे । किम् , यत् , तद् एषां समाहारद्वन्द्वात्पञ्चमी । द्वयोरेकस्य निर्धारणे गम्ये निर्धार्यमाणवाचिभ्यः किमादिभ्यो डतरच् स्यादित्यर्थः । अनयोः कतरो वैष्णव इति । को वैष्णव इत्यर्थः । अत्र वैष्णवत्वगुणेन किंशब्दार्थ इदमर्थाभ्यां निर्धार्यते। अतः किंशब्दाद् डतरचि डित्त्वाडिलोपे कतर इति भवति । एवं यद्शब्दात् तद्शब्दाच डतरचि टिलोपे यतरः, ततर इति भवति । 'निर्धार्यमाणवाचिभ्यः' इति किम् ? कयोरन्यतरो देवदत्तः, ययो'खार्थिकाः प्रकृतितो लिङ्गमतिवर्तन्ते' इति पुँल्लिङ्गताऽत्र संगच्छते । वत्सोक्षाश्व । तनुत्वं न्यूनता । सा च प्रवृत्तिनिमित्तस्य, प्रत्यासत्तेः । क्वचित्तु तत्सहचरितधर्मान्तराणाम् । तत्र वत्सः प्रथमवयाः। वयसश्च प्रथमस्य न्यूनत्वं नाम वयोऽन्तरप्राप्तिस्तदाह द्वितीयमिति । तरुण उक्षा । तारुण्यस्य च तनुत्वं तृतीयवयःप्राप्तिः । अश्वायामश्वा• दुत्पन्नोऽश्वः । अश्वत्वं च जातिः । तत्सहचरितस्याश्वायामश्वादुत्पन्नत्वधर्मस्य न्यूनत्वमन्यपितृकतात्वात् । तथा च गर्दभेनाश्वायामुत्पादितोऽश्वतरः । ऋषभो भारस्य वोढा । तस्य तनुत्वं भारोद्वहने मन्दशक्तिता । तद्वांस्तु ऋषभतरः । कियत्तदो । कतरो वैष्णव इति । गुणेन निर्धारणमिदम् । क्रियासंज्ञाभ्यां निर्धारणे तु कतरोऽध्यापकः । कतरो देवदत्त इत्यादि ज्ञेयम् । ननु द्वयोरेकस्य निर्धारणे डतरच्चेद् भवति, तर्हि 'कयोरन्यतरो देवदत्तः' 'ययोरन्यतरः' 'तयोरन्यतरः' इत्यत्रापि प्राप्नोति । अत्राहुःनिर्धार्यमाणवाचिभ्य एवायं प्रत्ययोऽभिधानखाभाव्यात् । तेनात्र नातिप्रसङ्ग इति । 'एकस्येति किम् , 'द्वयोः' इति कर्मणि षष्ठी मा भूत् । तथा हि सति 'अस्मिन् संघे को