________________
प्रकरणम् ४० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६२५ डतमच् । (५-३-६३) बहूना मध्ये निर्धारणे उतमज्वा स्यात् । 'जातिपरिप्रश्भे' इति प्रत्याख्यातमाकरे । कतमो भवतां कठः । यतमः । ततमः । वाग्रहणमकजर्थम् । यकः । सकः । महाविमाषया कः, यः, सः । किमोऽस्मिन्विषये रन्यतरः, तयोरन्यतर इत्यत्र किमादिभ्यो न भवति । वा बहूनाम् । 'किंयत्तद-' इति, 'निर्धारण' इति, 'एकस्य' इति चानुवर्तते । 'बहूनाम्' इति निर्धारणे षष्ठी। तदाह बहूनां मध्ये निर्धारणे डतमज्वा स्यादिति । मध्ये इत्यनन्तरमेकस्येति शेषः । जातिपरिप्रश्ने गम्ये इत्यपि बोध्यम् । जातिश्च परिप्रश्नश्चेति समाहारद्वन्द्वः । जातौ परिप्रश्ने च गम्ये इत्यर्थः । तत्र जाताविति किंयत्तदा सर्वेषामेव विशेषणम् । परिप्रश्नग्रहणं तु किम एव विशेषणम्, तच्च क्षेपार्थकस्य किमो निवृत्त्यर्थम् । यत्तदोस्तु परिप्रश्नग्रहणं न विशेषणम्, असंभवादिति वृत्तौ स्पष्टम् । अत्र वार्तिकम्-'किमादीनां द्विबह्वर्थे प्रत्ययविधानादुपाध्यानर्थक्यम्' इति 'पूर्वसूत्रे द्वयोरिति, अत्र सूत्रे जातिपरिप्रश्ने इति च न कर्तव्ये इति भावः' इति कैयरः । तदाह जातिपरिप्रश्न इति प्रत्याख्यातमाकर इति । क्षेपार्थस्य त्वनभिधानान ग्रहणमिति तदाशयः । पूर्वसूत्रे द्वयोरिति चेति बोध्यम् । तथाच 'कतम एषां पाचकः शूरो देवदत्तः' इत्यत्र क्रियागुणसंज्ञाभिरपि निर्धारणे डतमच भवति । 'एषां कतरो देवदत्तः' इत्यत्र बहूनामेकस्य निर्धारणे डतरच् भवति। अत एव 'प्रत्ययः' इति सूत्रभाष्ये 'बहुष्वासीनेषु कश्चित् कंचित्पृच्छति कतरो देवदत्तः' इति प्रयोगः संगच्छते । कतमो भवतां कठ इति । 'गोत्रं च चरणैः सह' इति कठस्य जातित्वम् । वाग्रहणमकजर्थमिति । अन्यथा महाविभाषया अपवादेन मुक्ते उत्सर्गस्याप्रवृत्तेरुक्तत्वादकच् न स्यादिति भावः । नच 'अव्ययसर्वनाम्नाम्-' इत्यस्याधिकारत्वात् तदनुवृत्त्यैव सिद्ध वाग्रहणं व्यर्थमेवेति वाच्यम् , इहैव सूत्रे तदनुवृत्तिः, नतु देवदत्तयज्ञदत्तौ' इत्यादावेव स्यात् । वा बहूनाम् । 'किंयत्तदः' इति वर्तते । जातिश्च परिप्रश्नश्चेति समाहारद्वन्द्वः । अत्र जातावितिसर्वेषां विशेषणम् । षष्ठीसमासे तु गुणभूतस्य जातिग्रहणस्य निष्कृष्य संबन्धोऽनुपपन्नः स्यात् । परिप्रश्नग्रहणं तु किम एव विशेषणम् । तच्च क्षेपनिवृत्यर्थम् । तत्र जातिग्रहणं प्रायोऽभिप्रायम् । क्रियागुणसंज्ञाभिरपि निर्धारणे डतमच इष्टत्वात् । तथा पूर्वसूत्रे द्वयोरिति प्रायोऽभिप्रायम् । बहूनां निर्धारणेऽपि डतरच इष्टत्वात् । तथा च वार्तिकम्-'किमादीनां द्विबह्वर्थे प्रत्ययविधानादुपाध्यानर्थक्यम्' इति । अत्र कैयट:-'द्वयोः' इति, 'जातिपरिप्रश्ने' इति च न कर्तव्यमिति भाव इति । तदेतदाह प्रत्याख्यातमाकर इति । कठ इति । कतमो भवतामध्यापकः शूरो देवदत्तो वेत्यप्युदाहतेव्यम् । यकः। सक