________________
६२६ ]
सिद्धान्तकौमुदी। [तद्धितेषु स्वार्थिकउतरजपि । कतरः । २०४६ एकाच प्राचाम् । (५-३-६४) डतरच् डतमय स्यात् । अनयोरेकतरो मैत्रः । एषामेकतमः । २०५० अवक्षेपणे कन् । (५-३-६५) व्याकरसकेन गर्वितः । येनेतरः कुस्सते तदिहोदाहरणम् । स्वतः कुत्सितं तु 'कुरिसते' (सू २०२५) इत्यस्य ।
इति तदिवेषु प्रागिवीयप्रकरणम् । अथ तद्धितेषु स्वार्थिकप्रकरणम् । ४१ ।
२०५१ इवे प्रतिकृती। (५-३-६६) कन्स्यात् । अश्व इव प्रतिकृतिः पूर्वस्त्रे इति ज्ञापनार्थत्वात् । अतो उतरज्विषये नाकच् । महाविभाषयेति । अत एव 'अवक्षेपणे' इति सूत्रे भाष्ये 'क एतयोरर्थयोर्विशेषः' इति प्रयोगः संगच्छते। तमबादयः प्रागवक्षेपणकनो नित्याः प्रत्ययाः' इति तु प्रायिकमिति भावः । किमोऽ. स्मिन्निति । 'वा बहूनाम्-' इति प्रकृतसूत्रविषयेऽपीत्यर्थः, बहुष्वासीनेषु इत्याद्युदाहृतभाष्यप्रयोगादिति भावः । एकाच प्राचाम् । शेषपूररोन सूत्रं व्याचष्टेउतरच् डतमञ्च स्यादिति । पूर्वसूत्रद्वयविषये इति शेषः । 'महाविभाषयैव सिद्ध प्राचांग्रहणं न कर्तव्यम्' इति भाष्यम् । अत एव नाकजथं तत् । अवक्षेपणे कन् । व्याकरणकन गर्वित इति । व्याकरणं हि स्वतो न कुत्सितम् , किंतु अधीतं सदध्येतृकुत्साहेतुभूतगर्वमावहदवक्षेपणम् । नन्ववक्षेपणं कुत्सा, तस्कथं व्याकरणमवक्षेपणं स्यात् , 'कुत्सिते' इत्यनेन गतार्थ चेदमित्यत आह येनेतर इति । भवक्षपणशब्दः करणे ल्युडन्त इति भावः ।
इति ताद्धतेषु प्रागिवीयप्रकरणम् । अथ तद्धिते स्वार्थिकप्रकरणं निरूप्यते । इवे प्रतिकृतौ । कन् स्यादिति । 'अवक्षेपणे कन्' इत्यतः तदनुवृत्तेरिति भावः । इवार्थ उपमानत्वम् । तद्वति वर्तमानात्प्रातिपदिकात्कन् स्यात्प्रतिकृतिभूते उपमेये इति फलितम् । मृदादिनिइति । कक इति तु नोक्तम् , अकच्सहितस्यापि 'किमः झः' इत्ययमादेश इति व्याख्यातत्वात् । महाविभाषयेति । 'प्राग्दिशः-' इति सूत्रे समर्थप्रथमग्रहणयोनिवृत्तत्वेऽपि वाग्रहणमनुवर्तते इत्युक्तत्वादिति भावः । 'किंयत्त :-' इति सूत्रे द्वयोरित्यस्य प्रत्याख्यानादाह किमोऽस्मिन्निति । एकाच । गचांग्रहणं पूजार्थम् । विकल्पोऽनुवर्तत एव । अवक्षेपणे कन् । कुत्सिते तु कः । खरे विशेषः । येनेतर इति । अवक्षिप्यते येनेत्यवक्षेपणशब्दः करणे ल्युडन्त इति भाः ।
इति तत्त्वबोधिन्यां प्रागिवीयप्रकरणम् ।