________________
प्रकरणम् ४१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६२७ भश्वकः । 'प्रतिकृती' किम्-गौरिव गवयः। २०५२ संज्ञायां च । (५-३-६७) इवार्थे कन् स्यात्समुदायश्चेत्संज्ञा। अप्रतिकृस्पर्थमारम्भः । अश्वसशस्य संज्ञा प्रश्वकः । उष्ट्रकः । २०५३ लुम्मनुष्ये । (५-३-६८) 'संज्ञायां च' इति विहि. तस्य कनो लुप्स्यान्मनुष्ये वाच्ये । 'चज्ञा तृणमयः पुमान् । च व मनुष्यश्रया। वधिका । २०५४ जीविकार्थे चापण्ये । (५-३-६६ ) जीविकार्थ यदवि. क्रीयमाणं तस्मिन्वाच्ये कनो लुप्स्यात् । वासुदेवः । शिवः । स्कन्दः । देवलकानां मिता प्रतिमा प्रतिकृतिः। अश्वक इति । प्रतिकृतेः स्त्रीऽत्वेऽपि 'स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति पुंल्लिङ्गत्वम् । संज्ञायां च । कनिति शेषः। समुदायश्चदिति । प्रकृतिप्रत्ययसमुदायश्चत्प्रकृत्यर्थसहशस्य संज्ञेत्यर्थः । पूर्वसूत्रणैव सिद्धे किमर्थमिदमित्यत आह अप्रतिकृत्यर्थमारम्भ इति । तथा च 'प्रतिकृतौ' इति निवृत्तम् । 'इव' इति त्वनुवर्तत एव । तदाह अश्वसदृशस्यति । अवसदृशस्य अमनुष्यस्य कस्यचित्संज्ञेषा । अश्वसदृशोऽयमश्वकसंज्ञक इति बोधः । लुम्मनुष्ये । संज्ञायां चेति विहितस्येति । नतु 'इवे प्रतिकृतौ' इति विहितस्य, मनुष्यस्य प्रतिकृतित्वासंभवादिति भावः। चश्चेव मनुष्यः चचा इत्युदाहरणं वक्ष्यन् चश्चाशब्दं व्याचष्टे चञ्चा तृणमयः पुमानिति । चश्चेति । चञ्चातल्यो मनुष्योऽयं चञ्चासंज्ञक इत्यर्थः। वकिति। वर्धिका चर्ममयी प्रतिकृतिः । तत्तुल्यो मनुष्योऽयं वर्धिकासंशक इत्यर्थः । लुपि युक्तवत्वात् स्त्रीत्वम् । वचनं तु विशेष्यवदेव, 'हरीतक्यादिषु व्यक्तिः' इत्युक्तेः । तेन चञ्चे इव मनुष्यौ इत्यत्र चश्चा इति न भवति । जीविकाथै चापराये । परयं विक्रीयमाणम् । तदाह अविक्री. यमाणमिति । वासुदेव इति । वासुदेवतुल्या जीविका अविक्रेया प्रतिकृतिरि
अश्वक इति । अश्वशब्दोऽश्वे एव वर्तते, कन्प्रत्ययस्तु प्रतिकृतिरूपे सदृश इति नायं खार्थिक इत्येके । अन्ये तु सादृश्यनिबन्धनादभेदोपचारागौर्वाहीक इतिवदश्वशब्द एव प्रतिकृतौ वर्तते । प्रत्ययस्तु तस्येवौपचारिकत्वस्य बोधक इत्याहुः । प्रतिकृतौ किम् , गौरिव रावयः । तृणचर्मकाष्ठादिनिर्मितं प्रतिमापरपर्यायं वस्तु प्रतिकृतिः । गवयस्तु नैवम् । समुदायश्चेदिति । प्रकृतिप्रत्ययसमुदाश्चेदश्वसदृशस्य संज्ञेत्यर्थः । चञ्चा । वधिकेति । लुपि युक्तवद्भावात् नीलिङ्गता । वासुदेवः। शिव इत्यादि । याः प्रतिमाः प्रतिगृह्य गृहाद् गृहं भिक्षमाणा अटन्ति ता एवमुच्यन्ते । देवलका अपि । त एव भिक्षवोऽभिप्रेताः । यास्त्वायतनेषु प्रतिष्ठाप्यन्ते पूज्यन्ते च तासूत्तरसूत्रेण लुप् । तदुक्तम्-'अर्चासु पूजनार्हासु चित्रकर्मध्वजेषु च । इवे प्रतिकृती लोपः कनो देवपयादिषु' इति । अर्चासु प्रतिमासु । प्रतिमासु कीदृशीषु,