________________
६२८ ]
[तद्धितेषु स्वार्थिक
सिद्धान्तकौमुदी । जीविकार्थासुदेवप्रतिकृतिष्विदम् । 'श्रपण्ये' किम् - हस्तिकान्विक्रीणीते । २०५५ देवपथादिभ्यश्च । ( ५-३ - १०० ) कनो लुप्स्यात् । देवपथः । हंसपथः । श्राकृतिगणोऽयम् । २०५६ बस्तेर्ढञ् । ( ५-३ - १०१ ) 'इवे' इत्यनुवर्तत त्यर्थः । एवं शिव इत्यादि । कथं प्रतिकृतेरविक्रेयाया जीविकार्थत्वमित्यत श्राह देवल कानामिति । प्रतिमां गृहीत्वा भिक्षार्थं प्रतिगृहमटता मेत्यर्थः । तत्तदायतनेषु 1 प्रतिष्ठितासु पूजार्थप्रतिमासु उत्तरसूत्रेण लुब्वदयते । हस्तिकान्विक्रीणीत इति । जीविकार्थं हस्तितुल्यप्रतिकृती: विक्रीणीत इत्यर्थः । अत्र पण्यत्वप्रतीतेः कनो न लुक् । 'संज्ञायां च' इति विहितस्य नायं लुप्, किन्तु 'इवे प्रतिकृतौ ' इति विहितस्यैव, भाष्ये प्रतिकृतावेव तदुदाहरणात् । पठन्ति चाभियुक्ताः
'रामं सीतां लक्ष्मणं जीविकार्थे विक्रीणीते यो नरस्त च धिग् धिक् । अस्मिन्पद्ये योऽपशब्दं न वेत्ति व्यर्थप्रज्ञं पण्डितं तं च धि धिक् ॥ इति । अत्र रामादिशब्दाः प्रतिकृतिषु वर्तन्ते । तासां चत्र पण्यतया कनो लुप् दुर्लभ इति रामसीतालक्ष्मणशब्दानामपशब्दत्वमित्याशयः । देवपथादिभ्यश्च । कनो लुप् स्यादिति । शेषपूरणमिदम् । 'इवे प्रतिकृतौ' इति विहितस्य देवपथादिभ्यः परस्य कनो लुप् स्यादिति यावत् । देवपथ इति । देवानां पन्था देवपथः । तत्प्रतिकृतिरित्यर्थः । 'इवे प्रतिकृतौ' इति कनो लुप् । एवं हंसपथः । अत्र वृत्तौ पठितम् -
'अर्चा पूजनार्था चित्रकर्मध्वजेषु च ।
वे प्रतिकृत लोपः कनो देवपथादिषु ॥ इति ।
अर्चाः प्रतिमाः । पूजार्थासु तासु चित्रकर्मसु ध्वजे देवपथादिगणपठितेषु इवे प्रतिकृतौ' इति विहितस्य कनो लुबित्यर्थः । ' तद्राजस्य -' इति सूत्रे कैयटोऽप्येतं श्लोकं पपाठ । अर्चासु यथा— शिवो विष्णुर्गणपतिरित्यादि : चित्रकर्मसु यथा---- रावणः कुम्भकरी इन्द्रजिदित्यादि । ध्वजेषु यथा— कपिः रुडो वृषभ इत्यादि पूजनासु गृहेष्वायतनेषु वा याः पूज्यन्ते तासु । चित्रकर्मध्वजाभ्यां तद्गताः प्रतिक्रतयो लक्ष्यन्ते। श्रर्चासूदाहरणम् - शिवः, विष्णुः । चित्रकर्म णि अर्जुनः, दुर्योधनः । ध्वजेषु—कपिः, गरुडः, सिंहः । सुवर्णसिंहमकरादयो राज्ञां ध्वजेषु सन्ति । हस्तिकानिति । ईदृशमेव विषयमभिप्रेत्य पठन्ति - 'रामं संतां लक्ष्मणं जीविकार्थे विक्रीणीते यो नरस्तं च धिग्धिक् । अस्मिन्पद्ये योऽपशब्दान्न वेत्ति व्यर्थप्रज्ञं पण्डितं तं च धिग्धिक्' इति । अयं भावः -- ' अपण्ये' इत्युक्तत्वात्पराये हस्तिकानितिवत् रामकं सीतिका लक्ष्मणकमिति प्रयोगा एव साधव इति । देवपथ इत्यादि । देवपथ
1