________________
प्रकरणम् ४१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६२६ एव । 'प्रतिकृतौ' इति निवृत्तम् । बतिरिव बास्तेयम् , बास्तेयी । २०५७ शिलाया ढः । (५-३-१०२) शिलेव शिलेयम् । योगविभागाद् ढमपीत्येके । शैलेयम् । २०५८ शाखादिभ्यो यः। (५-३-१०३) शाखव शाख्यः। मुख्यः । जघनमिव जघन्यः । अभ्यः । शरण्यः । २०५६ द्रव्यं च भव्ये । (५-३-१०४) द्रव्यम् अयं ब्राह्मणः । २०६० कुशाग्राच्छः । (५-३-१०५) कुशाग्रमिव कुशाग्रीया बुद्धिः । २०६१ समासाच तद्विषयात् । (५-३-१०६) इवार्थविषयात्समासाच्छः स्यात् । काकतालीयो देवदत्तस्य बस्तेढम् । निवृत्तमिति । अस्वरितत्वादिति भावः। 'संज्ञायां च' इत्यादिपूर्वसूत्रेषु कापि प्रतिकृतावित्यस्यानिवृत्तेः न लुब्बिधिषु तेषु तदनुवृत्तिरपेक्षिता । बस्तिरिवेति । 'बस्ति भेरधो द्वयोः' इत्यमरः। शिलाया ढः। इवे इत्येव । शिलेव शिलयमिति । दध्यादीति शेषः। योगेति । 'शिलायाः' इत्येको योगः। 'ढञ्' इत्यनुवर्तते, 'इवे' इति च । शैलेयमिति । अित्त्वादादिवृद्धिः, स्त्रियां लीप च फलम् । 'ढः' इति द्वितीयो योगः। 'शिलायाः' इत्यनुवर्तते । उक्तोऽर्थः । शाखादिभ्यो यः। 'यत्' इति त्वपपाठः। तैत्तिरीये 'मुख्यो भवति' इत्यादौ मुख्यशब्दस्य आद्युदात्तत्वदर्शनात् , उगवादिसूत्रभाष्यविरुद्धत्वाच्च । द्रव्यं च भव्ये । द्रुशब्दादिवार्थवृत्तेः यप्रत्ययो निपात्यते भव्ये उपमेये गम्ये । 'भव्य आत्मवान् । अभिप्रेतानामर्थानां पात्रभूतः' इति वृत्तिः। द्रव्यम् अयमिति । दुः वृक्षः, स यथा पुष्पफलादिभाग् एवमभिमतफलपात्रभूत इत्यर्थः । यद्वा दुः कल्पवृक्षोऽत्र विवक्षितः, स इव अभिमतार्थभागित्यर्थः। यप्रत्यये ओर्गुणः अवादेशः । कुशाग्राच्छः। इवे इत्येव : कुशाग्रमिवेति । सूक्ष्मत्वेन सादृश्यम् । कुशाग्रवत् सूक्ष्मेत्यर्थः । समासाश्च । तच्छब्देन प्रकृत इवार्थः परामृश्यते । तदाह इवार्थविषयादिति । इवार्थः सादृश्यमुपमानोपमेयभावात्मकम् , तद्विषयकादित्यर्थः । सादृश्यवदर्थबोधकात् समासादिति यावत् । यद्यपि घनश्याम इति समासोऽपि साहश्यवदर्थबोधकः, तथापि सादृश्यवदर्थबोधकसमस्यमानयावत्पदावयवकात् समासादिति विवक्षितमिति न दोषः । छः स्यादिति । चकारेण पूर्वसूत्रोपात्तच्छस्यानुकर्षादिति भावः । इवार्थे इति शेषः । 'पूगाभ्यः-' इत्यतः प्रागिवाधिकारात् । ततश्च इवार्थकइव प्रतिकृतिः । इंसपथ इव प्रतिकृतिरिति विग्रहः । बस्तिरिति । 'बस्ति भेरधो द्वयोः' इत्यमरः । द्रव्यं च भव्ये । द्रुशब्दादिवार्थे यत्प्रत्ययो निपात्यते । समा. साञ्च तद्विषयात् । तच्छन्देन प्रकृत इवार्थो निर्दिश्यते इत्याह इवार्थविषया. दिति । छः स्यादिति । इवार्थे इति बोध्यम् । 'पूगाळ्यः-' इत्यतः प्रागिवेत्य