________________
६३० ] सिद्धान्तकौमुदी। [तद्धितेषु स्वार्थिकवधः । इह काकतालसमागमसदृशश्चोरसमागम इति समानार्थः । तत्प्रयुक्तः काकमरणसदृशस्तु प्रत्ययार्थः । अजाकृपाणीयः । अतर्कितोपनत इति फलितोऽर्थः । समस्यमानयावत्पदकात्समासादिवाथै छः स्यादिति लभ्यते । काकतालीयो देवदत्तस्य वध इति । काकः कश्चिदकस्मात् तालवृक्षस्य मृलं गतस्तालफलपतनान्भृतः । तथैव कश्चिद्देवदत्तः अकस्मानिर्जनप्रदेशे क्वचिद्गत चोरेण हतः, तत्रेदं वाक्यं प्रवृत्तम् । अत्र समासार्थगतं सादृश्यमेकम् , प्रत्ययार्थ गतम् अन्यत्सादृश्यं च भासते । तथाहि-काकागमनमिव तालपतनमिव काकतालमिति समासस्य विग्रहः । अत्र काकशब्दः काकागमनसदृशे देवदत्तागमने लाक्षणिकः । तालशब्दस्तु तालपतनसदृशे चोरागमने लाक्षणिकः । काकागमनसदृशं देवदत्तागमनं तालपतनसदृशं चोरागमनमिति च काकतालमिति समासाद्बोधः । यद्यप्यत्र काकतालशब्दयोः मिलितयोरेकत्रान्वयाभावाद् द्वन्द्वसमासो न संभवति, परस्परान्वयाभावेन असामर्थ्याच्च । तथापि अस्मादेव विधिबलात् 'सु सुपा' इति समासः । तथा च काकतालसमागमसदृशो देवदत्तचोरसमागम इति समासार्थः, तदाह इह काकतालसमागमसदृशश्चोरसमागम इति समासार्थ इति । अत्र चोरसमागम इत्यस्य चोरेण देवदत्तस्य समागम इत्यर्थः । तदेवंविधात्समासात् काकतालशब्दादिवान्तरार्थे सादृश्यान्तरे छप्रत्ययः । तत्र समासात्मककाकतालशब्दभूतप्रकृत्यर्थरूपकाकतालसमागमसदृशदेवदत्तचोरसमागमे सति तालपतनकृतकाकमरणे उपस्थिते उपमानत्वम् , देवदत्तवधे चोरागमनकृरे उपमेयत्वं च छप्रत्ययेन गम्यते । ततश्च तादृशचोरसमागमे सति तालपतनकृतकाकगरणसदृशो देवदत्तस्य चोरकृतो वध इति छप्रत्ययेन लभ्यते । तदाह तत्प्रयुक्त इति । तादृशतालपतनप्रयुक्त इत्यर्थः। सदृश इत्यनन्तरं देवदत्तवध इति शेषः । तथा च काकतालसमागमसदृशो देवदत्तचोरसमागमः, तद्धेतुकस्तालपतनकृतकाकमरणसदृशश्चोरकृतो देवदत्तवध इत्येवं काकतालीयो देवदत्तवध इति समासाद्वोधः। एतदेवाभिप्रेत्योक्तं भाष्ये 'काका. गमनमिव तालपतनमिव काकतालम् । काकतालमिव काकतालीयम्' इति । अत्र काकतालमिति इवार्थगर्भितकेवलद्वन्द्वाद् न भवति इवान्तरार्थस्य सादृश्यान्तरस्याप्रतीतेरित्यलम् । अजाकृपाणीय इति । अजागमनमिव पाणपतनमिव अजाधिकारात् । शस्त्रीश्यामत्यादौ तु एक एव इवार्थः । स च समासान्तर्भूत इति छो न भवत्युक्तार्थानामप्रयोगात् । काकतालीय इति । प्रकृत सूत्रादेव ज्ञापकादिवार्थे समासः । सुप्सुपेति वा । उभयथापि विशेषसंज्ञाविनिर्मुक्तः । स च छप्रत्ययविषय एव । तेनेह स्वातन्त्र्यमुपाध्यन्तरयोगो विग्रहश्च नेत्याकरः । इह काकतालेत्यादि ।