________________
प्रकरणम् ४१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६३१ २०६२ शर्करादिभ्योऽण् । (५-३-१०७) शर्करेव शार्करम् । २०६३ अङ्गल्यादिभ्यष्ठक् (५-३-१०८) मङ्गलीव प्राङ्गलिकः । भरुजेव भारु. जिकः । २०६४ एकशालायाष्ठजन्यतरस्याम् । (५-३-१०६) एकशालाशब्दादिवाथै ठन्वा । पो ठक् । एकश्शालेव एकशालिकः, ऐकशालिकः । २०६५ कर्कलोहितादीकक् । (५-३-११०) कर्कः शुक्लोऽश्वः । स इब कार्कीकः । लौहितीकः स्फटिकः । २०६६ पूगायोऽग्रामणीपूर्वात् । (५-३-११२) इवार्थो निवृत्तः। नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः सङ्घाः पूगाः । तद्वाचकारस्वार्थे न्यः स्यात् । लौहितध्वज्यः। 'बातच्फमोरखियाम्' कृपाणम् , तदिव अज कृपाणीयः । अजाकृपाणसमागमसदृशो देवदत्तचोरसमागमः समासार्थः कृपाणपतनप्रयुक्ताजामरणसदृशो देवदत्तवधश्चोरकृतः प्रत्ययार्थः । अत्र सर्वत्र अतर्कितोपनतत्वं साधारणो धर्म इत्याह अतकितेति । शर्करादिभ्योऽण । इवे इत्येव । शार्करमिति । 'स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यति. वर्तन्ते' इति विशेष्यनिघ्नतेति भावः । अंगुल्यादिभ्यष्ठक् । इवे इत्येव । अंगुलीवेति । अलिशब्दात् 'कृदिकारादक्तिनः' इति डीए । आंगुलिक इति । पूर्ववद्विशेष्यनिघ्नता । भरुजेव भारुजिक इति । पूर्ववद्विशेष्यनिघ्नता । एकशालायाः। पक्षे ठगिति । 'अन्यतरस्याम्' ग्रहणम् अनन्तरठकः समुच्चयार्थमिति भावः । ठज्वेत्येव सुवचम् । कर्कलोहितादीका । कर्कः शुक्लोऽश्व इति । अश्वपर्यायेषु 'सितः कर्कः' इत्यमरः । लौहितीका स्फटिक इति । जफपुष्पादिसंपर्कवशाल्लोहित इवेत्यर्थः । पूगाध्यः । इवार्थो निवृत्त इति। व्याख्यानादिति भावः । अनियतवृत्तय इति । उद्वृत्ता इत्यर्थः। तद्वाचकादिति । पूगेति न स्वरूपग्रहण , व्याख्यानात् । ग्रामणीवाचकपूर्वावयवकभिन्नात् पूगवाचकादित्यर्थः । लोहितध्वज्य इति । लोहिता ध्वजा यस्य पूगस्य स एव लोहि. तध्वज्यः । व्रातच्फोरस्त्रियामिति । इदं सूत्रम् 'गोत्रे कुजादिभ्यः-' इत्यत्र आगच्छतः काकस्याऽकस्मात्तालफलपतनाद्यथा वधः, तथैव चाकस्मिकचोरसमागमाहेकदत्तवधः । एवमजाया श्रागच्छन्त्याः कृपाणपतनाद् यथा वधः, तत्सादृशं मरणमिति फलितोऽर्थः । अतर्कितोपनत इति । अचिन्तितोपपन्नः, यादृच्छिक इत्यर्थः। पूगायो । स्वरूपग्रहणं तु न भवति, 'अप्रामणीपूर्वात्' इति वचनात् । पूर्वशब्दो ह्यवयववचनः । अग्रामणीपूर्वादिति किम् , देवदत्तो प्रामणीर्येषां ते देवदत्तकाः । 'स एषां प्रामणीः' इति कन् । अत्र समुदायः पूगवचनः । लीहितध्वज्य इति । लोहितो ध्वजो यस्य संघस्य स लोहितध्वजः, स एव लौहितध्वज्यः । वातच.