________________
प्रकरणम् ४०] बालमनोरमा-तत्त्वबोधिनीसहिता। [६०६ प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः । ज्येष्ठः । २०१२ ज्यादादीयसः । (६-४-१६०) 'प्रादेः परस्य' (सू ४४) ज्यायान् । २०१३ वृद्धस्य च। (५-३-६२) ज्यादेशः स्यादजाद्योः। ज्येष्ठः, ज्यायान् । २०१४ अन्तिकबाढयोर्नेदसाधौ। (५-६-६३) अजाद्योः । नेदिष्ठः, नेदीयान् । साधिष्ठः, साधीयान् । २०१५ स्थूलदरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः । (६-४-१५६ ) एषां यणादिपरं लुप्यते, पूर्वस्य च गुण इष्ठादिषु । नस्तद्धिते, यस्येति च, टेः' इत्यादेरेतत्प्रकरणस्थलोपस्यायं प्रकृतिभाव इति भाष्ये स्पष्टम् । श्रेष्ठः, श्रेयानिति । अयमनयोरतिशयेन प्रशस्य इत्यर्थः। ज्य च । 'ज्य' इति लुप्तप्रथमाकम् । 'प्रशस्यस्य' इति 'अजादी' इति चानुवर्तते । तदाह प्रशस्यस्येति । ज्येष्ठ इति । 'प्रकृत्यैकाच्' इति प्रकृतिभावान टिलोपः। ईयसुनि ज्यादेशे ज्येयानिति प्राप्ते । ज्यादादीयसः। ज्यात्, आत् इति छेदः । ज्यात् परस्य ईयस आकारः स्यादित्यर्थः । अन्तादेशत्वे प्राप्ते आह आदे परस्येति । वृद्धस्य च । शेषपूरणेन सूत्रं व्याचष्टे ज्यादेशः स्यादजाद्योरिति । इष्ठ. नीयसुनोरित्यर्थः । ज्येष्ठ इति । अयमनयोरतिशयेन वृद्ध इत्यर्थः। अन्तिकवाढयोः । अजाद्योरिति । शेषपूरणमिदम् । अन्तिक, बाढ अनयोः इष्ठेयसुनोः परतः नेद, साध एतावादेशौ स्त इत्यर्थः । नेदिष्ठः, नेदीयानिति । अयमनयोरतिशयेनान्तिक इत्यर्थः । साधिष्ठः, साधीयानिति । अयमनयोरतिशयने बाढ इत्यर्थः । बाढो भृशः । 'भृशप्रतिज्ञयोर्बाढम्' इत्यमरः । 'अतिवेलभृशात्यर्थीतिमात्रोद्गाढनिर्भरम्' इति च । स्थूलदूर । एषामिति । स्थूल, दूर, युवन्, ह्रख, क्षिप्र, क्षुद इत्येतेषामित्यर्थः । यणादीति । यण आदिर्यस्येति विग्रहः । परमिति यणादीत्यस्य विशेषणम्, परभूतं यणादीत्यर्थः। लुप्यत इति । 'अल्लोपोऽनः' इत्यतोऽनुवृत्तं लोपपदमिह कर्मणि घनन्तमाश्रीयत इत्यर्थः। भावसाधनत्वे परमित्यनेन सामानाधिकरण्यासंभवात् । पूर्वस्येति । पूर्वत्वं यणपेक्षया बोध्यम् । इष्टादिष्विति । अजाद्योरिति । अजाद्योः किम् , प्रशस्यतरः। प्रशस्यतमः । श्रेष्ठ इति । प्रकृतिभावादिह 'टेः' इति लोपो 'यस्येति-' लोपश्च न भवति । ज्यादात् । ज्यादुत्तरस्य ईयसुन आकारादेशः स्यात् । वृद्धस्य च । वरूपस्येह ग्रहणम् , न तु 'वृद्धिर्यस्याचामादिः-' इति पारिभाषिकस्य, व्याख्यानात् । अस्य 'प्रियस्थिर-' इत्यादिना वर्षादेशोऽपि पक्षे भवति । न च तस्येमनिचि सावकाशता शङ्कया, वृद्धशब्दादिमनिचोडभावात् । यदि तु 'वृद्धस्य वर्षिश्च' इतिसूत्रमिहैव क्रियेत, तदा द्विवृद्धग्रहणं न कर्तव्यमिति लाघवं भवतीत्याहुः । स्थूलदूर । परप्रहणं यविष्ठो हसिष्ठ इत्यत्र पूर्वयणा