________________
६०८ ]
सिद्धान्तकौमुदी। [तद्धितेषु प्रागिवीय स्तः । २००८ तुरिष्ठेमेयःसु । (६-४-१५४ ) तृशब्दस्य लोपः स्याद् एषु परेषु । अतिशयेन कर्ता करिष्ठः । दोहीयसी धेनुः । २००६ प्रशस्यस्य श्रः। (५-३-६०) अस्य श्रादेशः स्यादजायोः । २०१० प्रकृत्यैकाच । (६-४-१६३) इष्टादिष्वेकाच्प्रकृत्या स्यात् । श्रेष्ठः, श्रेयान् । २०११ ज्य च । (५-३-६१) पञ्चम्येकवचनम् । तृ इत्यनेन तृन्तृचोः सामान्येन ग्रहणम् । प्रत्ययत्वात्तदन्तग्रहणम् । अजादी इत्यनुवर्तते । तदाह तृन्तुजन्तादिति । अगुणवचनादपि तृप्रत्ययान्तात् प्राप्त्यर्थमारम्भः । एवं च पूर्वेण नियमेन व्यावर्तितयोः प्रतिप्रसवोऽयं नत्वपूर्वो विधिरिति सूचयितुं छान्दसमप्यत्रोपन्यस्तम् । तथा च अगुणवचनादपि कर्तृशब्दा. दिष्ठन्प्रत्यये कर्तृ इष्ठ इति स्थिते 'इष्ठेमेयस्सु' इति विहिते टिलोपे प्राप्त । तरिष्ठेमेयःसु । तृ इत्यस्य तुरिति षष्ठ्येकवचनम् । एष्विति । इछन् , इमन्, ईयस् इत्येतेग्वित्यर्थः । अयं लोपः सामर्थ्यात्सर्वादेशः, अन्त्यस्य ऋकारस्य 'टेः' इत्येव सिद्धेः । करिष्ठ इति । अयमनयोरतिशयेन कर्तेत्यर्थः । दोहीयसीधेनुरिति । इयमनयोरतिशयेन दोग्ध्रीत्यर्थः । इष्ठनि 'भस्याढे-' इति पुंवत्त्वे डीपो निवृत्तौ तृप्रत्ययस्य लोपे परनिमित्ताभावाद् ‘दादेः-' इति घत्वस्य निवृत्तौ उगित्त्वाद् डीपि दोहीय. सीति रूपम् । 'पुगन्त-' इति गुणस्तु न निवर्तते । लुप्तेऽपि तृचि प्रत्ययलक्षणेन तत्सत्त्वात् । प्रशस्यस्य श्रः। अजाद्योरिति । इष्ठन्नीयसुनोरित्यर्थः । 'अजादी' इत्यनुवृत्तं सप्तम्या विपरिणम्यत इति भावः। प्रशस्यशब्दस्य क्रियाशब्दतया गुणवचनत्वाभावेऽपि अत एव ज्ञापकादिष्ठन्नीयसुनौ । श्र इष्ठ, श्र ईयस् इति स्थिते इष्ठेमेयःसु विहितटिलोपे प्राप्ते । प्रकृत्यैकाच । एकः अच् यस्येति बहुव्रीहिः । इष्ठादिष्विति । 'तुरिष्ठेमैयःसु' इत्यतः तदनुवृत्तेरिति भावः । 'अल्लोपोऽनः, पटुतम इत्यादि न सिध्येत् । तुश्छन्दसि । पूर्वेण नियमेन व्यावर्तितयोः प्रतिप्रसवोऽयम् , नत्वपूर्वो विधिः । तेन उपाधिसंकरो न । तुरिष्ठे । 'टेः' इत्यनेनान्यलोपे सिद्धेऽप्यारम्भसामर्थ्यात्सर्वस्य तृशब्दस्य लोपस्तदाह करिष्ठ इति । दोहीयसीति । इयमनयोरतिशयेन दोग्ध्री 'भस्याढे तद्धिते' सिद्धश्च प्रत्ययविधौ' इति वचनात् तद्धिते कर्तव्ये प्रागेव पुंवद्भाव इति डीपि निवृत्ते दोगशब्दात्प्रत्ययः, ततस्तुचि निवृत्ते निमित्ताभावाद् घत्वजश्त्वयोरपि निवृत्तिः । अलौकिकविग्रहवाक्ये प्रागेव तयोरप्रवृत्तिः। 'अकृतव्यूह-' परिभाषयेति तु तत्त्वम् । गुणस्तु प्रवर्तते। लुप्तेऽपि तृचि प्रत्ययलक्षणध्रौव्यात् । छान्दसमपि 'तुः- इति सूत्रम् , इति 'तुरिष्ठेमेयःसु' इति च 'णाविष्ठवत्' इत्यतिदेशेन लोकेऽपि करिमाचष्टे कारयतीत्यादावुपयोक्ष्यमाणत्वादिहोपन्यस्तम् । प्रशस्यस्य श्रः। 'अजादी' इत्यनुवृत्तं सप्तम्या विपरिणम्यत इत्याह