________________
प्रकरणम् ४० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६०७ पूर्वयोरपवादः । अयमनयोरतिशयेन लघुः लघुतरः, लघीयान् । उदीच्याः प्राच्येभ्यः पटुतराः, पटीयांसः।२००६ अजादी गुणवचनादेव । (५-३-५८) इष्टनीयसुनौ गुणवचनादेव स्तः । प्रथिष्ठः, प्रथीयान् । नेह-पाचकतरः, पाचकतमः । २००७ तुश्छन्दसि । (५-३-५६) तृन्तृजन्तादिष्ठन्नीयसुनौ द्वयोर्मध्ये अन्यतरापेक्षया अतिशयविशिष्टस्वार्थवृत्तेः विभागप्रयोजकीभूतधर्मवाचकाच्च शब्दात्स्वार्थे तरबीयसुनौ स्त इति यावत् । यद्यप्यत्र द्वे सुबन्ततिबन्ते प्रकृती, द्वौ च प्रत्ययौ, तथापि न यथासंख्यम् , व्याख्यानात् । अथ द्विवचनोपपदे उदाहरति अयमनयोरिति । अत्र उपोच्चारितं पदम् उपपदम् , नतु कृत्रिमम् , तद्धितविधौ तदसंभवाद् धात्वधिकार एव तत्प्रवृत्तेरुतत्वात् । तच्चोपपदं विग्रहवाक्येऽवश्यं प्रयुज्यते । तद्धितवृत्तौ तु गतार्थत्वान्नावश्यकम् । लघीयानिति । ईयसुनि नकार इत् , उकार उच्चारणार्थः, उगित्त्वान्नुम् , 'सान्त-' इति दीर्घः, हल्ङयादिसंयोगान्तलोपौ । अथ विभज्योपपदे उदाहरति । उदीच्याः प्राच्येभ्य इति । 'पञ्चमी विभक्ते' इति पञ्चमी । द्विवचनसंज्ञकग्रहणे तु 'दन्ताः स्निग्धतराः' इति न सिध्येत् । 'बहुषु पुत्रेषु एतदुपपन्नं भवति अयं मे ज्येष्ठः, अयं मे मध्यमः, अयं मे कनीयान्' इति 'अाद्यन्तवत्-' सूत्रस्थभाष्यप्रयोगाद् 'नर्देशिकानां वार्ततरका' इति 'तस्मिन्' इति सूत्रभाष्यप्रयोगाच्च अद्वयर्थोपपदेऽपि तरबीयसुनावित्याहुः । अजादी। तरप्तमपौ इष्टनीयसुनौ चेति चत्वारः प्रत्यया अनुक्रान्ताः। तेषां मध्ये यौ अजादी इष्ठन्नीयसुनौ तावित्यर्थः । तदाह इष्ठन्नीयसुनाविति । पाचकतरः, पाचकतम इति । क्रियाशब्दत्वादाभ्यामिष्ठन्नीयसुनौ नेति भावः । गुणवचनादजादी एवेति विपरीतनियमव्यावृत्यर्थः एवकारः । तेन पटुतरः पटुतम इत्यादि सिद्धम् । तुश्छन्दसि । तृ इत्यस्य तुरिति गतार्थत्वान्नावश्यकम् । एवं स्थिते उपपदग्रहणं स्पष्टार्थम् । इह द्वे उपपदे द्वे च सुबन्ततिङन्तरूपे प्रकृती द्वौ च प्रत्ययौ तथापि यथासंख्यं नेष्यते । द्विवचनोपपदमुदाहरति अनयोरिति । लघीयानिति । 'टेः' इति लोपः। उगित्त्वान्नुम् । 'सान्तमहतः-' इते दीर्घः । हल्ङयादिसंयोगान्तलोपौ । विभज्योपपदमुदाहरति प्राच्येभ्य इति । 'पञ्चमी विभक्ते' इति पञ्चमी । कथं तर्हि 'परुद्भवान् पटुरासीत् , ऐषमस्तु पटुतरः' इति । अत्राहुः-एकस्यापि धर्मिणस्तत्कालस्थत्वादिरूपधर्मभेदेन भेदाध्यारोपात्प्रतियोग्यपेक्षस्तत्कालस्थप्रकर्षस्तदाश्रयश्चेह तरप्प्रत्यय इति । व्यपदिशन्ति च-'अन्य एवासि संवृत्तः', 'कच्चित्स एवासि धनंजयस्त्वम्' इति । अजादी गुणवचनादेव । इष्टतोऽवधारणार्थ एवकारः। तेन प्रत्ययनियमोऽयम् । एवकाराभावे तु गुणवचनादजादिप्रत्ययावेवेति प्रकृतिनियमोऽपि संभाव्येत । तथा च पटुतरः,