SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ ६०६ ] सिद्धान्तकौमुदी। [तद्धितेषु प्रागिवीयतु उच्चस्तमस्तरः । २००५ द्विवचनविभज्योपपदे तरबीयसुनौ । (५-३-५७) द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादतौ स्तः । तु द्रव्यस्य । उच्चैस्तमस्तरुरिति । अतिशयेन उच्चस्तरुरित्यर्थः । अत्र उच्चैस्त्वप्रकर्षस्य तरौ द्रव्ये भानादाम् नेत्यर्थः। किंतमामित्यादौ 'यस्येति च' इति लोपं परत्वाद् बाधित्वा ह्रस्वान्तलक्षणनुटो निवृत्त्यर्थमामु इत्युकारोच्चारणम् । सति तु तस्मिन् 'निरनुबन्धकग्रहणे न सानुबन्धकस्य' इति परिभाषया नुड्विधावस्य न ग्रहणमित्यादि 'आमि सर्वनाम्नः-' इति सूत्रभाष्ये प्रपञ्चितम् । द्विवचन । उच्यतेऽनेनेति वचनम् । द्वयोरर्थयोर्वचनं द्विवचनम् । द्यर्थप्रतिपादकमिति यावत् । न द्विवचनसंज्ञकमिह गृह्यते व्याख्यानात् । विभक्तव्यं विभज्यम् । 'ऋहलो:-' इति ण्यतं बाधित्वा निपातनाद्यत् । द्विवचनं च विभज्यं चेति समाहारद्वन्द्वः। द्विवचनविभज्यं च तदुपपदं चेति कर्मधारयः। द्यर्थप्रतिपादके विभक्तव्यविषयके च उपपदे सतीति फलितम् । 'प्रातिपदिकात्' इति 'तिङ' इति चानुवर्तते । सुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तात्सुबन्तत्वं प्रातिपदिकविशेषणं लभ्यते। फलितमाह द्वयोरेकस्येत्यादिना। लोपस्य परेण नुटा बाधात् । सिद्धान्ते तु 'निरनुबन्धकग्रहणे न सानुबन्धकस्य' इति परिभाषया नुविधौ नास्य ग्रहणम् । द्विवचनविभज्योपपदे । द्वयोरर्थयोर्वचनं द्विवचनम् । करणे ल्युट । कर्मणि षष्ठया समासः । येन पदेन द्वावर्थावुच्येते तद्द्विवचनम् । विभक्तव्यं विभज्यम् । 'ऋहलोः-' इति एयति प्राप्ते तदपवादो यत् निपात्यते । एयति तु 'चजोः-' इति कुत्वेन विभाग्यमिति स्यात् । विभाज्यशब्दस्य स्मृतिषु प्रयुक्तस्य साधुत्वं चिन्त्यमिति हरदत्तोनिश्चिन्त्या । ण्यन्ताद् 'अचो यत्' इति विभाज्यमिति रूपसिद्धेः । न चात्रार्थभेदः शङ्कयः, 'निवृत्तप्रेषणाद् धातोः प्राकृतेऽर्थे णिच्' इति 'णेरणौ-' इति सूत्रे व्युत्पादनादिति दिक् । द्विवचनं च विभज्यं चेति द्वन्द्वः । तस्य उपपदेन कर्मधारयः । तथा च द्यर्थवाचके विभजनीये चोपपदे सतीत्यक्षरार्थः । द्विवचनान्ते उपपदे इति व्याख्यायां तु दन्तोष्टस्य दन्ताः स्निग्धतरा इत्यादि न सिध्यति । ननु द्वयोर्वचनं द्विवचनमिति पक्षेऽपि नेदं सिध्यति समाहार. स्यैकत्वाद् गुणभूतवर्तिपदार्थाश्रयणे तु द्वात्रिंशद्दन्ताः द्वावोष्ठाविति तेषां बहुत्वात्सुतरां न सिध्येदिति चेत् । अत्राहुः वृत्तावभेदैकत्वसंख्यामुपाददति वर्तिपदानि । ततश्च भेदस्य परित्यागादभेदैकत्वसंख्यायाश्चोपादानाद्दन्तोष्ठलक्षणार्थद्वयं दन्तोष्टशब्देनोच्यत इति नास्ति 'द्वयोर्वचनं द्विवचनमित्येतदर्थकद्विवचनोपपदे' इति पक्षे दोष इति । विस्तरस्त्वाकरग्रन्थेभ्योऽवगन्तव्यः । अन्वर्थ चोपपदम् उपोच्चारितं पदमिति, न तु कृत्रिमम् , तद्धितविधौ तस्यासंभवात् । तच्च विग्रहवाक्य एव प्रयुज्यते । वृत्तौ तु
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy