SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ४० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६०५ (१-१-२२) एतौ घसंज्ञौ स्तः । २००४ किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे (५-४-११) किम एदन्तात्तिकोऽव्ययाच यो घस्वदन्तादामुः स्थान तु द्रव्यप्रकर्षे । किंतमाम् । प्राद्धेतमाम् । पचतितमाम् । उस्तमाम् । द्रव्यप्रकर्षे वचनम् । तमप् स्यादिति । 'अजादी गुणवचनादेव' इति नियमादिष्ठन्नानुवर्तत इति भावः । तरप्तमपी घः। प्रथमस्य प्रथमपादे सूत्रमिदम् । आतिशायनिकप्रत्यय. प्रकरणान्ते, 'पितौ घः' 'तादी घः' इति वा वक्तव्ये प्रकरणान्तरे पृथग्गुरुसूत्रकरणमत्यन्तस्वार्थिकमपि तरपं ज्ञापयति । तस्य आतिशायनिकप्रकरणबहिर्भूतस्य सत्त्वे तत्संग्रहणार्थ प्रकरणान्तरे सूत्रकरणस्यावश्यकत्वादित्याहुः । तेन 'अल्पाच्तरम्' 'लोपश्च बलवत्तरः' इत्यादि सिद्धम् । किमेत्तिङव्यय । 'श्रामु' इति छदः । उकार उच्चारणार्थः । किम्, एत्, तिङ्, अव्यय एषां चतुर्णा द्वन्द्वः । किमेत्ति व्ययप्रकृतिको घः' इति मध्यमपदलोपी समासः। फलितमाह किम एदन्तादित्यादिना । एभ्य इत्यर्थः । किंतमामिति । अत्यन्तस्वार्थिकोऽयं तमप् , नत्वतिशायने । एषामतिशयेनाढय इतिवदेषामतिशयेन क इति विग्रहस्यासंभवात् । जातिगुणक्रियासंज्ञाभिः समुदायादेकदेशस्य पृथकरणं हि निर्धारणम् । किं. शब्दश्च न जात्याद्यन्यतमप्रवृत्तिनिमित्तकः । एवं चात्रातिशयस्याप्रतीतेव्यप्रकर्षो दूरापास्त इति भावः । प्राहृतमामिति । प्राह्नः पूर्वाह्नः । 'प्राह्णापराह्नमध्याहाः त्रिसन्ध्यम्' इत्यमरः। अतिशयिते पूर्वाह्ने इत्यर्थः । पूर्वावयवगतप्रकर्षा दह्नः प्रकर्षो बोध्यः। अत्र अहर्न द्रव्यम् । सूर्योदयादारभ्य सूर्यास्तमयावधिकस्यैव कालस्य अहन्शब्दार्थत्वात् । तस्य च उदयादिक्रियाघटितत्वान्न द्रव्यत्वमिति भावः। पचतितमामिति । अतिशयिता पाकक्रियेत्यर्थः । तिङन्तेषु क्रियाविशेष्यकबोधस्यैव 'प्रशंसायां रूपप्' इति सूत्रभाष्ये प्रपञ्चितत्वात् । अतोऽत्र क्रियाया एव प्रकर्षो नतु द्रव्यस्येति भावः। उच्चैस्तमामिति । आशंसतीत्यध्याहार्यम् । अतिशयेन उच्चैराशंसनादिक्रियेत्यर्थः। अत्रापि क्रियाया एव प्रकर्षों न अस्मादिष्ठन्न भवति, 'अजादी गुणवचनादेव' इति नियमादित्याशयेनाह तमप्स्यादिति । तरप्तमपौ घः । अस्मिन्नेवातिशायनिकप्रकरणे 'तादौ घः' "पिती घः' इति वा वक्तव्ये प्रकरणान्तरे गुरुसूत्रकरणमत्यन्तखार्थिकमपि तरपं ज्ञापयति । तेन 'अल्पाचतरम्', 'लोपश्च बलवत्तरः' इत्यादि सिद्धम् । अल्पाजेव ह्यल्पान्तरम् । न त्वत्र द्वयोरेकस्यातिशयविवक्षायां तरप् । अन्यथा 'शिवकेशवौ' इत्यादिसिद्धावपि 'शङ्खदुन्दुभिवीणाः' इत्यादि न सिध्येदित्याहुः । किमेत् । आमोरुकारो यदि त्यज्येत, तर्हि पचतितरामित्यादौ 'हखनद्यापः-' इति नुटि पचतितराणामिति स्यात् । 'यस्येति च'
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy