________________
६०४ ]
सिद्धान्तकौमुदी। [तद्धितेषु प्रागिवीयस्तः । अयमेषामतिशयेनाढ्य माढयतमः । लघुतमो लधिष्ठः । २००२ तिङश्च । (५-३-५६ ) तिङन्तादतिशये द्योत्ये तमप्स्यात् । २००३ तरप्तमपौ घः । अत एव निपातनाद्दीघः । अतिशायने इति प्रकृत्यर्थविशेषणम् । अतिशयितरि 'विद्यमानात् प्रातिपदिकात् स्वार्थे तमप् इष्ठन् च स्यादित्यर्थः । फलितमाह अतिशयविशिष्टार्थवृत्तेरिति । यदि तु अतिशायनशब्दस्य भावल्युडन्तत्वं तर्हि प्रत्ययार्थस्य प्राधान्यापत्तौ शुक्लतरादिशब्दात् शुक्लादिगतमतिशयनमिति बोधः स्यात् । नत्वतिशयितशुक्ल इति । तथा च शुक्लतरः शुक्लतरेति पुंस्त्वं स्त्रीत्वं च न स्यात् । अतिशायने वर्तमानादित्यर्थे तु अतिशयप्रकर्षादिशब्देभ्य एव स्यात्, नतु पटवादिभ्यः। अतिशयविशिष्टे लक्षणया विद्यमानादित्यर्थे अतिशय्यमानादपि प्रत्ययापत्तिः। अतिशयनकर्तरि लक्षणायां तु भाष्योक्तमेव साधु इत्यास्तां तावत् । अयमेषामिति । द्वयोरेकस्य निर्धारणे तरबीयसुनावपवादौ वक्ष्येते । अतः परिशेषाद्बहूनामेकस्य निर्धारणे अस्य तमपः प्रवृत्तिरिति भावः । अतिशयेनाढय इति । द्रव्यस्य जातेर्वा स्वतः प्रकर्षयोगो नास्ति, अन्यथा घटतम इत्याद्यापत्तेः । किंतु गुणद्वारैव द्रव्यजात्योः प्रकर्षयोगः । तथा च आढयतम इत्यत्र उत्कर्षविशिष्ट आढयः प्रकृत्यर्थः । तमस्तु तद्दयोतकः । तमपि सति 'सुपो धातु-' इति सुपो लुक्, 'घकालतनेषु-' इति योगेन सुबन्तादेव तद्धितोत्पत्तेरुक्तत्वात् । अत्र आतिशायनिकप्रत्ययान्तादातिशायनिकप्रत्ययोऽनभिधानान्न भवति । 'श्रेष्टतमाय कर्मणे' इति तु छान्दसमिति भाष्ये स्पष्टम् । लघिष्ठ इति । लघुशब्दादिष्टनि ओर्गुणे प्राप्ते 'इष्ठेमेयस्सु' इत्यनुवृत्तौ 'टेः' इति टिलोपः। तिङश्च । अत्रापातिपदिकत्वादप्राप्ते नाधिक्यम् , किं त्वभिभवः । 'पूर्वान्महाभागतयातिशेषे' इति प्रयोगदर्शनात् । न चैवं 'प्रकर्षे तमबिष्ठनौ' इत्येव कुतो न सूत्रितमिति शङ्कयम् । अतिशायनमिति निपातनार्थमेव तथोक्तत्वाद् अतिशयो न प्रत्यथार्थः। तथा हि सति लघोरतिशायनं लघुतममिति स्यात् । प्रत्ययार्थस्य प्राधान्यात् । नापि प्रकृत्यर्थः । तथा हि सति प्रकर्षातिशयातिशयनादिभ्य एव स्यात्, न त्वाट्यादिभ्यः। किं तु प्रकृत्यर्थविशेषणम् । प्रत्ययस्तु द्योतकस्तदेतदाह अतिशयविशिष्टेत्यादि । अयमेषामिति । व्यवयवे समुदाये यदा एकस्यातिशयो विवक्ष्यते, तदा तरबीयसुनावपवादौ वक्ष्येते । तथा च परिशेषादहूनां मध्ये यदा एकदेशस्य निर्धारणं सोऽस्य विषय इति भावः । आढयतम इति । सुबन्तात्तमप् । 'सुपो धातु-' इति लुक् । यद्यपि 'ठ्या प्रातिपदिकात्' इत्येवानुवर्तते, तथापि सुबन्तपरतयैव व्याख्येयम् । अन्यथा हि पूर्वाह्नेतरां पूर्वाह्नेतमामित्यादौ 'घकालतनेषु कालनाम्नः' इति सप्तम्या अलुग्विधानं कथमुपपद्यताम् । तिङश्च ।