SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ४० ] बालमनोरमात्तत्त्वबोधिनीसहिता। [६०३ एककः, एकः । १६६६ भूतपूर्वे चरट् । (५-३-५३) आढ्यो भूतपूर्व पाढयचरः । २००० षष्ठया रूप्य च । (५-३-५४) षष्ट्यन्तादतपूर्वेऽर्थे रूप्यः स्थाचरट् च । कृष्णस्य भूतपूर्वो गौः कृष्णरूप्यः, कृष्णचरः । तसिलादिषु रूप्यस्यापरिगणितत्वाश पुंवत् । शुभ्राया भूतपूर्वः शुभ्रारूप्यः। २००१ अति. शायने तमविष्ठनौ । (५-३-५५) अतिशयविशिष्टार्थवृत्तेः स्वार्थे एतौ प्राकिनिष्प्रत्ययः स्यादित्यर्थः। भूतपूर्वे चरद् । भूतपूर्व वर्तमानात्प्रातिपदिकात् स्वार्थे चरट् स्यादित्यर्थः । षष्ठ्या रूप्य च । रूप्येति लुप्तप्रथमाकम् । 'भूतपूर्वे' इत्यनुवर्तते । षष्ठयन्ताद् भूतपूर्वेऽर्थ इति । भूतपूर्वेऽर्थे विद्यमानात् षष्ठयन्तादित्यन्वयः । 'भूतपूर्वे' इत्यनुवृत्तं हि श्रुतत्वात् षष्ठ्या विशेषणम् । भूतपूर्वे सम्बन्धे या षष्ठी तदन्तात्स्वार्थे रूप्यः स्यादिति फलति । यथाश्रुते तु स्वार्थिकप्रकरणविरोधः। कृष्णरूप्य इति । भूतपूर्वगत्या कृष्णसम्बन्धी गौरित्यर्थः । शुभ्रारूप्यशब्दे 'तसिलादिषु-' इति पुंवत्त्वमाशङ्कय 'तसिलादयः प्राक् पाशपः' इत्यादिवार्तिकपरिगणितेषु रूप्यस्यानन्तर्भावात्तस्मिन्परे पुंवत्त्वं नेत्याह तसिलादिष्वित्यादि । शुभ्राया भूतपूर्व इति । गौरिति शेषः। शुभ्रारूप्य इति । भूतपूर्वगत्या शुभ्रासंबन्धी गौरित्यर्थः । अतिशायने । अतिपूर्वकः शीधातुरुपसर्गवशादुत्कर्षे वर्तते। उत्कर्षश्वाधिक्यफलको न्यकारः, नत्वाधिक्यमात्रम्, तथा सति अकर्मकत्वापातात् । न चेष्टापत्तिः, तथा सति 'शुक्लमतिशेते शुक्लतरः, कृष्णमतिशेते कृष्णतरः' इत्यादि. भाष्यविरोधात् । 'अतिशयिता अतिशायिनः, बाहुलकः कर्तरि ल्युट्' इति भाष्यम् । तु परस्परातिरिक्तसहायाभावेन द्वयोर्बहुनामपि भवति । इह 'अकिनिच्' एवायं वक्तव्यः, सवर्णदीर्पण सिद्धमिष्टम् । 'यस्येति च' इति लोपश्चाकारोच्चारणसामर्थ्यान भवतीत्यादि हरदत्तग्रन्थे स्थितम् । भूतपूर्वे । अत्र वर्तमानाच्चरट् स्यात् । 'गोष्ठात् खञ्-' इत्यत्रैव नोक्तम् । विशेषविहितेन खना चरटो बाधा मा भूदिति । संनिधौ हि सामान्यविशेषभावः स्फुटीभविष्यति । यद्यपि दूरस्थस्यापि बाधो न्याय्य एव तथापीह गौरवं स्वीकृत्य दूरे पाठसामर्थ्याद्वाधो नेति भावः । षष्ठया रूप्य च । भूतपूर्व इत्यनुवर्तते । तच्च यद्यपि पूर्वत्र व्याप्प्रातिपदिकस्य विशेषणम् , तथापीह न तथा, षष्ठयन्तार्थस्य विशेषणत्वात् , तदाक्षिप्तस्य सम्बन्धिनो गवादेः प्रधानत्वात् , प्रधानेतरसंनिधौ च प्रधाने कार्यसंप्रत्ययस्य न्याय्यत्वात्तदेतदाह भूतपूर्वेऽर्थे रूप्यः स्यादिति । अतिशायने । अतिपूर्वाच्छेतर्युट् । अतिशयनमेवातिशायनम् । अस्मदेव निपातनादीर्घः । न तु सौत्रः । तेन लोकेऽपि दीर्घः साधुः। अबाधकान्यपि निपातनानि भवन्ति । तेन ह्रखोऽपि साधुः । यद्यपि केवलः शेतिः स्वप्ने वर्तते तथाप्यतिपूर्वः प्रकर्षे । प्रकर्षश्चात्र
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy