________________
६०२ ] सिद्धान्तकौमुदी। [तद्धितेषु प्रागिवीयद्वितीयः। तृतीयः । स्वरे विशेषः । 'तीयादीकस्वार्थे वा वाच्यः' (वा २६६१)। द्वैतीयीकः, द्वितीयः । तार्तीयीकः, तृतीयः । 'न विद्यायाः' (वा २६६२)। द्वितीया, तृतीया विद्येत्येव । १६६५ प्रागेकादशभ्योऽच्छन्दसि। (५-३-४१) पूरणप्रत्ययान्ताद्भागेऽन् । चतुर्थः । पञ्चमः । १६६६ षष्ठाष्टमाभ्यां अ च । (५-३-५०) चादन् । षष्ठो भागः षाष्ठः, षष्ठः। श्राष्टमः, अष्टमः। १९६७ मानपश्वङ्गयोः कन्लुको च। (५-३-५१) षष्ठाष्टमशब्दाभ्यां क्रमेण कन्लुको स्तो माने पश्चङ्गे च वाच्ये । षष्ठको भागो मानं चेत् । अष्टमो भागः पश्चङ्गं चेत् । अस्यानो वा लुक् । चकाराद्यथाप्राप्तम् । षष्ठः, षाष्ठः । अष्टमः, श्राष्टमः । महाविभाषया सिद्धे लुग्वचनं पूर्वत्र मानौ नित्याविति ज्ञापयति । १६६८ एकादाकिनिच्चासहाये । (५-३-५२) चात्कन्लुको । एकाकी, अन् स्यादित्यर्थः । अन्विधेः प्रयोजनमाह स्वरे विशेष इति । नित्यादिनित्यम्' इति स्वरे इत्यर्थः । तीयादीकगिति । वार्तिकमिदम् 'दृष्टं साम' इति सूत्रभाष्ये स्थितम् । न विद्याया इति । वार्तिकमिदमपि तत्रैव स्थितम् । विद्यावृत्तेः तीयप्रत्ययान्तादीका नेत्यर्थः । प्रागेकादशभ्यः। शेषपूरणेन सूत्रं व्याचष्टे पूरणप्रत्ययान्ताद् भागे अनिति । द्वितीयतृतीयशब्दाभ्यो पूर्वसूत्रेण सिद्धत्वाच्चतुर्थादिदशमशब्दपर्यन्तविषयकमिदमित्यभिप्रेत्योदाहरति चतुर्थ इति । नचानेनैव सिद्धत्वात्पूर्वसूत्रं किमर्थमिति शङ्कयम्, तस्य छन्दस्यपि प्रवृत्त्यर्थत्वात् । षष्ठाटमाभ्यां अ च । पूर्वसूत्रविषये इति शेषः । 'अ' इति लुप्तप्रथमाकम् । ॐ आदिवृद्धिः । चादनिति । इह न यथासंख्यम्, व्याख्यानात् । मानपश्वङ्गयोः । अस्य अनो वेति । अष्टमशब्दात्पूर्वसूत्रविहितस्य अप्रत्ययस्य अन्प्रत्र यस्य च अनेन लुगित्यर्थः । चकाराद्यथाप्राप्तमिति । प्रत्ययः अन्प्रत्ययश्चेत्यर्थः । ननु समर्थानाम्-' इत्यतो वाग्रहणानुवृत्त्यैव जानोरभावे सति पश्वङ्गे अष्टमो भाग इत्यस्य सिद्धेरिह लुम्विधानं व्यर्थमित्याशङ्कयाह महाविभाषयेति। पूर्वत्रेति । 'षष्टाष्टमाभ्यां अच' इति सूत्रे इत्यर्थः । एवं षष्ठाष्टमाभ्यां शब्दाभ्यां जानोरिह नित्यं प्राप्तयोः कदाचिल्लुग्विधिरर्थवानित्यर्थः । एकादाकिनिच्चासहाये । असहायवाचक देकशब्दात्स्वार्थे 'प्रागेकादशभ्यः' इत्यनि सति तु टापि चतुर्था पञ्चमेति प्रसज्येत। एकादाकिनिश्च । असहायवाचिन एकशब्दादाकिनिच् स्यात् । कन्लुकाविति । आकिनिचः कनो वा पक्षे लुक् । तयोरेवानेन सूत्रेण विधानात् । असहायग्रहणं संख्याशब्दनिरासार्थम् । अन्यथा प्रसिद्धत्वात्संख्याप्रकरणाच तस्यैव ग्रहणं स्यात् । इष्टापत्तौ तु द्वित्वे बहुत्वे च न स्यादेकाकिनौ एकाकिन इति। न हि द्वयोबेहुषु वा एकत्वसंख्यास्ति । असहायत्वं