________________
प्रकरणम् ४० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६०१ (५-३-४४) एकध्यम् , एकधा । १६६१ द्वियोश्च धमुन् । (५-३-४५) प्राभ्यां 'धा' इत्यस्य धमुन्याद्वा । द्वैधम् , द्विधा । त्रैधम् , त्रिधा। 'धमुजन्तास्वार्थे डदर्शनम्' ( वा ३२३० ) पथि द्वैधानि । १९६२ एधाच्च । (५-३-४६) द्वेधा । त्रेधा । १६६३ याप्ये पाशप् । (५-३-४७) कुत्सितो भिषग् भिपक्पाशः । १९६४ पूरणाद्भागे तीयादन् । (५-३-४८) द्वितीयो भागो 'एकात्' 'धः' इति छेदः । धाशब्दस्य 'धः' इति षष्ठयेकवचनम् । एकशब्दात्परस्य धाप्रत्ययस्य ध्यमुआदेशः स्यादित्यर्थः । ऐकध्यमिति । नच एकशब्दाद् ध्यमुञ्प्रत्ययः स्वतन्त्रो विधीयताम् । न तु धाप्रत्ययस्यादेश इति वाच्यम्, तथा सति अधिकरणविचाल एव संनिहितत्वादापत्तेः। द्विव्योश्च धमुञ् । षष्ठी पञ्चम्यर्थे । 'ध' इति 'अन्यतरस्याम्' इति चानुवर्तते । तदाह आभ्यामिति । परस्येति शेषः। धमुञन्तादिति। वार्तिकमिदम् । दृशिग्रहणात् क्वचिदेवायम् । पथि द्वैधानीति। तृणानीति शेषः । द्वैधमित्यस्माद् डप्रत्यये टिलोपे रूपम् । नच 'तसिलादयः प्राक् पाशपः' इति डप्रत्ययान्तस्याप्यव्ययत्वं शङ्कशम्, स्वभावतः सत्त्ववचनत्वेनाव्ययत्वासंभवाद् 'द्वैधानि' इति भाष्यप्रयोगाच्च । एघाच्च । द्वित्रिभ्यां परस्य धाप्रत्ययस्य एधाजित्यादेशः स्यादित्यर्थः । 'पञ्चम्यास्तसिल्' इत्यारभ्य 'एधाच' इत्यन्तैर्विहितप्रत्ययान्तानामव्ययत्वम् । याप्ये पाशप् । याप्यः कुत्सितः 'निकृष्टप्रतिकृष्टावरेफयाप्यावमाधमाः' इत्यमरः । कुत्सिते विद्यमानात् स्वार्थे पाशप् स्यादित्यर्थः । प्रवृत्तिनिमित्त कुत्सायामिदम् । अप्रवृत्तिनिमित्तकुत्सायामपि कुत्सित इति वक्ष्यमाणं भवतीति भाष्ये स्पष्टम् । पूरणाद्भागे। पूरणार्थकतीयप्रत्ययान्ताद् भागे विद्यमानात्स्वार्थे दाहर्तव्यम् । इह क्रियाविषयकप्रकारो न गम्यत इति सूत्रारम्भः। एकाद्धो । शब्दप्रधानत्वात्सर्वनामकार्याभावः। इह प्रकरणादेव सिद्धे पुनर्धाग्रहणं विधार्थे विहितस्यापि यथा स्यात् । 'अनन्तरस्य-' इति न्यायेनाधिकरणविचाले विहितस्यैव हि प्राप्नोतीति वृत्तिपदमजोः स्पष्टम् । एतेन खतन्त्र एव ध्यमुञ् प्रत्ययोऽस्त्वित्याशङ्का परास्ता । ऐकध्यमिति । विधार्थे ऐकध्यं भुङ्क्ते । अधिकरणविचाले तु ऐकध्यं राशिं कुर्वि. त्यादि ज्ञेयम् । एवमग्रेऽपि द्वैधमित्यादौ योज्यम् । एधाश्च । द्वित्र्योः संबन्धिनो धाप्रत्ययस्य एधाच् स्यात् । योगविभागो यथासंख्यनिरासार्थः । याप्ये पाशप् । 'कुत्सिते' इत्यत्रैव नायं विहितः, तिङन्तादपि प्रसङ्गात् । पूरणाद्भागे । पूरणार्थत्वात्तीयप्रत्ययः पूरणशब्देनोक्तः । पूरणग्रहणं चोत्तरार्थम् । न ह्यपूरणस्तीयप्रत्ययो भवति । मुखतीयः पार्श्वतीय इत्यत्र त्वनर्थकत्वान्नातिप्रसङ्गः । भाग इति पुंस्त्वं विवक्षितम् । तेन समानेऽप्यर्थे विभक्तो विवक्षितायां चतुर्थी पञ्चमीत्येव भवति ।