________________
६०० ]
सिद्धान्तकौमुदी ।
[तद्धितेषु प्रागिवीय
इत्येव । दक्षिणादागतः । १६८६ आहि च दूरे । ( ५-३- ३७) दक्षिणाद् दूरे श्राहि स्यात् । चादाच् । दक्षिणाहि, दक्षिणा । १६८७ उत्तराञ्च । (५-३-३८) उत्तराहि, उत्तरा । १६८८ संख्याया विधार्थे धा । ( ५-३-४२ ) क्रियाप्रकारार्थे वर्तमानात्संख्याशब्दात्स्वार्थे धा स्यात् । चतुर्धा पञ्चधा । १६८६ अधिकरणविचाले च । ( ५-३ - ४३ ) द्रव्यस्य संख्यान्तरापादने संख्याया धा स्यात् । एकं राशि पञ्चधा कुरु । १६६० एकाद्धो ध्यमुञन्यतरस्याम् । तम् । एवंच आच्प्रत्यये, 'उत्तराधरदक्षिणात्' इत्यातिप्रत्यये, 'दक्षिणोत्तराभ्याम् -' इत्यतसुचि च त्रीणि रूपाणि । श्राहि च दूरें । दक्षिणाशब्द दिति शेषः । चादाजिति । तथा दूरे उक्तरूपत्रयेण सह चत्वारि रूपाणीति भावः । उत्तराच्च । आच् आहि चेति शेषः। अतसुचा श्रतिना च चत्वारि रूपाणि । संख्याया विधार्थे धा । विधाशब्दस्यार्थः प्रकारः विधार्थः । 'विधा विधौ प्रकारे च' इत्यमरः । सामान्यस्य भेदको विशेषः प्रकारः । स चाभिधानस्वभावात् क्रियाविषयक एव गृह्यते । तदाह क्रियाप्रकारेति । चतुर्धा पञ्चधेति । गच्छतीत्यादिक्रियाप हमध्याहार्यम् । चतुष्प्रकारा गमनादिक्रियेति बोधः । नवधा देव्यमित्यादावपि भवतीत्यादि क्रियापदमध्याहार्यम् । अधिकरणविचाले च । अधिकरणं द्रव्यम्, तस्य विचालो विचालनं संख्यान्तरापादनम् । तदाह द्रव्यस्येति । संख्यान्तरापादनं च न्यून संख्या अधिक संख्याकरणम् अधिकसंख्यस्य न्यूनसंख्याकरणं च । श्रद्ये उदाहरति एकं राशिं पञ्चधा कुर्विति । द्वितीये तु अनेकमेकधा कुर्वित्युदाहार्यम् । इह राशिविषयक एव प्रकारो गम्यते नतु क्रियाप्रकार इति सूत्रारम्भः । एकाद्धो ध्य मुञन्यतरस्याम् ।
उत्तरतः । अधः । अधस्तात् । उत्तरात् । अधरात् । दक्षिणात् । संख्याया विधार्थे धा । विधाशब्दस्यार्थो विधार्थः । यद्यप्योदनपिण्डोऽपि विधाशब्देनोच्यते, तथापीह न गृह्यते । तेन एकगोविधेत्यादौ न भवति । इह हि 'विधाय म्' इति वक्तव्ये अर्थग्रहणस्य प्रयोजनं विधाशब्दो यत्रार्थे प्रसिद्धस्तत्रैव यथा स्यात् । तादृशश्चार्थः प्रकार एव, स च क्रियाविषयक एव गृह्यते अभिधानस्वभावात्तदाह क्रियाप्रकारे वर्तमानादिति । कथं तर्हि 'नवधा द्रव्यम्, बहुधा गुणः' इत्यादि । अत्रापि ह्यश्रुता क्रिया प्रतीयते ' उपदिश्यते इति वा, भवति इति वा' हरदत्तः । अधिकरणविचाले च । अधिकरणं द्रव्यम्, विचलनं विचालोऽन्यथाकरम् । णिजन्तादेरच् । तच्चेह् संख्यासंनिधानात्संख्यान्तरापादनमिति व्याचष्टे द्रव्यस्येत्यादिना । संख्यान्तरापादनं हि एकस्यानेकीकरणम्, अनेकस्य च एकीकरणम । तत्राचे उदाहरणम् एकं राशिं पञ्चधेति । पञ्च राशीन् कुर्वित्यर्थः । द्वितीये तु नेकम् एकधा कुर्वित्य
1