________________
प्रकरणम् ४० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५६६ (५-३-२६) परतः । अवरतः । परस्तात् । प्रवरस्तात् । १६८० अञ्चलृक् । (५-३-३०) अश्वत्यन्ताहिन्छन्दादस्तातेच्क्स्यात् । 'लुकद्धितलुकि' (सू १४०८)। प्राच्या प्राध्याः प्राची वा दिक् प्राक् । उदक् । एवं देशे काले च । १६८१ उपर्युपरिष्टात् । (५-३-३१) अस्तातेविषये ऊर्ध्वशब्दस्योपादेशः स्यात् , रिल , रिष्टातिलौ च प्रत्ययौ । उपरि, उपरिष्टाद्वा वसति, पागतः, रमणीयं वा । १९८२ पश्चात् (५-३-३२) अपरस्य पश्चभाव प्रातिश्च प्रत्ययोऽस्तातेविषये । १९८३ उत्तराधरदक्षिणादातिः । (५-३-३४) उत्तरात् । अधरात् । दक्षिणात् । १९८४ एनबन्यतरस्यामदूरेऽपञ्चम्याः । (५-३-३५) उत्तरादिभ्य एनम्बा स्यादवध्यवधिमतोः सामीप्ये पश्चमी विना। उत्तरेण । अधरेण । दक्षिणेन । पने यथास्वं प्रत्ययाः । इह केचिदुत्तरादीनननुवयं दिक्छन्दमात्रादेनपमाहुः। पूर्वेण ग्रामम् । अपरेण ग्रामम् । १९८५ दक्षिणादाच् । (५-३-३६) अस्तातेर्विषये । दक्षिणा वसति । 'अपञ्चम्याः' प्रत्याख्यातः । केचित्तु अकारोच्चारणमन्यतो विधानार्थम् । तेन पुरत इति सिद्धमित्याहुः । समानकालीनमित्यादिवत् पुरत इति प्रामादिकमेवेति बहवः। विभाषा । अतसुजिति शेषः । पक्षे अस्तातिः । अञ्चेर्लुक । प्राच्यामिति । लिङ्गविशिष्टपरिभाषया अस्तातेलृक् । उपर्युपरिष्टात् । 'ऊर्ध्वस्य उपभावः रिल्प्रत्ययो रिष्टातिल्प्रत्ययश्च' इति भाष्यम् । तदाह अस्तातेर्विषये इत्यादिना । वसति,
आगतः, रमणीयं वेति । विभक्तित्रयस्य यथासंख्यमुदाहरणम् । पश्चात् । 'अपरस्य पश्चभावः, प्रातिश्च प्रत्ययः' इति भाष्यवाक्यमिदम् । प्रत्यये इकार उच्चारणार्थः। उत्तराधर । आतिप्रत्यये इकार उच्चारणार्थः । अस्तातेरपवादः । एनबन्यतरस्याम् । 'अपञ्चम्या इति प्रागसेः' इति भाष्यम् । सूत्रक्रमे 'पूर्वाधर-' इत्यसिं वक्ष्यति । ततः प्रागित्यर्थः । उत्तरादिभ्य इति । 'उत्तराधरदक्षिणात्' इत्यनुवर्तत इति भावः । अदूरे इत्येतद्याचष्टे अवध्यवधिमतोः सामीप्य इति । पञ्चमी विनति । पञ्चम्यन्तान भवतीत्यर्थः । यथास्वमिति । एनबभावे पक्षे अस्तातिः असिः आतिश्चेत्यर्थः । दिक्छब्दमात्रादिति । अञ्चत्यन्तात्तु नेदम् , व्यवस्थितविभाषाश्रयणात् । तेन प्राचेन प्राममित्यादि न भवतीत्याहुः । दक्षिणादाच् । अस्तातेर्विषय इति । एतेन 'अदूरे' इति नानुवर्तत इति सूचिप्राच्यां प्राच्या इति । प्राच्यां दिशि वसति प्राग्वसति । प्राच्या दिश आगतः प्रागागत इत्यादि योज्यम् । पञ्चम्यन्तं विनेति । नेह उत्तरादागतः । अधरा. दागतः । उत्तरेणेत्यादि । वसति रमणीयं वा । पक्षे यथास्वमिति । दक्षिणतः।