________________
५६८ ] सिद्धान्तकौमुदी। [तद्धितेषु प्रागिवीयपुरस्तात् । अधः, अधस्तात् । अवः । १९७७ विभाषाऽवरस्य । (५-३-४१) अवरस्यास्तातौ परेऽव स्याद्वा । अवस्तात् , अवरस्तात् । एवं देशे काले च । 'दिशि रूढेभ्यः' किम्-ऐन्द्यां वसति । 'सप्तम्याद्यन्तेभ्यः' किम्-पूर्व ग्रामं गतः । 'दिगादिवृत्तिभ्यः' किम्-पूर्वस्मिन्गुरौ वसति । 'श्रस्ताति च' (सू १९७६) इति ज्ञापकादसिरस्तातिं न बाधते। १६७८ दक्षिणोत्तराभ्यामतसुच् । (५-३-२८) अस्तातेरपवादः । दक्षिणतः, उत्तरतः। १९७६ विभाषा परावराभ्याम् । तदाह अस्ताताविति । यद्यपि सूत्रक्रमे 'पूर्वाधर-' इति 'अस्ताति च' इति च 'संख्याया विधार्थ-' इत्यतः प्राक् पठितम् । तथापि अस्तातौ पुराधादेशविधानाय 'अस्ताति च' इति सूत्रमुपन्यसनीयम् । तत्रानुवृत्तिप्रदर्शनाय 'पूर्वाधर-' इत्यपि सूत्रमिहैवोपन्यस्तम् । पुर इति । पूर्वाशब्दाद् असिप्रत्ययः प्रकृतेः पुर् आदेशः । पुरस्तादिति । पूर्वाशब्दाद् अस्तातिप्रत्ययः प्रकृतेः पुर् आदेशः। अधः, अधस्तादिति । अधरशब्दाद् असिप्रत्यये अस्तातिप्रत्यये च प्रकृतेः अध् आदेशे रूपम् । अव इति । अवरशब्दाद् असिप्रत्यये प्रकृतेः अव् दिशे रूपम् । विभाषाऽवरस्य । 'अस्ताति च' इति पूर्वसूत्राद् 'अस्ताति' इत्यनुवर्तते । तदाह अवरस्येति । एवमिति । पूर्वस्मिन् पूर्वस्मात् पूर्वो वा देशः, कालो वा पुरः पुरस्तादित्यादि । पूर्वस्मिन्गुराविति । पूर्वकालिकाध्यापनकर्तरीत्यर्थः । ननु 'दिक्छब्दभ्यः' इति सामान्यविहितस्य परादिशब्देषु सावकाशस्य अस्तातेः पूर्वाधरावरशब्देषु असिना विशेषविहितेन बाधः स्यादित्यत आह अस्ताति चेतीत्यादि । दक्षिणोत्तराभ्याम् । दिग्देशकालवृत्तिभ्यामिति शेषः। दक्षिणतः, उत्तरत इति। नच तसुजेव प्रत्ययोऽस्तु । दिग्वर्तित्वे तु 'सर्वनानो वृत्तिमात्रे-' इति पुंवत्वेनैव दक्षिणत इत्यादि सिद्धमिति वाच्यम् , स्पष्टार्थत्वात् । अत एव भाष्ये अकारः
दिग्देशकालेष्विति । यथासंख्यमत्र नेष्यते अस्वरितत्वात् । पुरः पुरस्तादिति । कथं तर्हि 'पश्यामि तामित इतः पुरतश्च पश्चात्' इति भवभूतिः, 'स्यात्पुरः पुरतोऽप्रतः' इत्यमरः, 'पुरतः प्रथमे चाने' इति विश्वश्च । समानकालीनं पूर्वकालीनमित्यादिवत्प्रामादिकमेवेति बहवः। केचित्तु 'दक्षिणोत्तराभ्यां तसुज्विधिनैवेष्टसिद्धौ अतसुच्' इत्यकारोच्चारणमन्यतोऽपि विधानार्थम् । तेन पुरत इति सिध्यति । 'पुर अग्रगमने' क्विपि पुर् । 'र्वोः' इति दीर्घस्तु न भवति भत्वात् । न च अतसुचश्चित्त्वेऽप्यकारोच्चारणं पक्षे आयुदात्तत्वार्थमिति वाच्यम् , बहूनां प्रयोगानुरोधेनान्यतो विधानार्थमिति कल्पनस्यैव न्याय्यत्वादित्याहुः । यथासंख्यत्वानाश्रयणात् पुरस्ताद्वसति पुरस्तादागतः पुरस्ताद्रमणीयम् । अधस्ताद्वसति, अधस्तादागत इत्यादि सिध्यति ।