________________
प्रकरणम् ३६] बालमनोरमात्तत्त्वबोधिनीसहिता। [५६७ अनेन एतेन वा प्रकारेण इस्थम् । १६७३ किमश्च । (५-३-२५) केन प्रकारेण कथम् ।
इति तद्धितेषु प्राग्दिशीयप्रकरणम् । अथ तद्धितेषु प्रागिवीयप्रकरणम् । ४०।
१६७४ दिक्छब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः। (५-३-२७) सप्तम्याद्यन्तेभ्यो दिशि रूढेभ्यो दिग्देशकालवृत्तिभ्यः स्वार्थेऽस्तातिप्रत्ययः स्यात् । १६७५ पूर्वाधरावराणामसि पुरधवश्चैषाम् । (५-३-३६) एभ्योऽस्तात्यर्थेऽसिप्रत्ययः स्यात् , तद्योगे चैषां ऋमात् 'पुर' 'अध्' 'अ' इत्यादेशाः स्युः । १६७६ अस्ताति च । (५-३-४०) मस्तातौ परे पूर्वादीनां पुरादयः स्युः । पूर्वस्याम् , पूर्वस्याः, पूर्वा वा दिक् । पुरः, इत्थमिति । एतेतौ रथोः' इति प्रकृतेरिदम इदादेशः । एतच्छब्दात् थमुप्रत्यये तु 'एतद' इति योगविभागाद् इदादेशः । किमश्च । प्रकारवृत्तेस्थमुरिति शेषः। कथमिति । 'किमः कः' इति कादेशः।
इति तद्धितेषु प्राग्दिशीयानां विभक्तिसंज्ञकानां पूर्णोऽवधिः।
अथ प्रागिवीयप्रकरणमारभ्यते। दिक्छब्देभ्यः। सप्तम्याद्यन्तेभ्य इति। सप्तमीपञ्चमीप्रथमान्तेभ्य इत्यर्थः । रूढेभ्य इति । शब्दप्रहणलभ्यमिदम् । अस्तातिप्रत्यये इकार उच्चारणार्थः । तकारान्तः प्रत्ययः । 'संख्याया विधार्थे धा' इति सूत्रपर्यन्तमिदं सूत्रमस्तातिवर्जमनुवर्तते । अत्र विभक्तीनां दिगादीनां च न यथासंख्यम् , व्याख्यानात् । पूर्वाधरावराणाम्। 'असि' इति लुप्तप्रथमाकम् । पुर अध, अव् एषां द्वन्द्वात्प्रथमाबहुवचनम् । प्रस्तात्यर्थ इति । दिग्देशकालवृत्तिभ्य इत्यर्थः। प्रस्ताति च। 'अस्ताति' इति लुप्तसप्तमीकम् । 'अस्ताति' इति तकारान्तात् सप्तम्येकवचनं वा। 'पूर्वाधरावराणाम्-' इति 'पुरधव' इति चानुवर्तते। जातीयोऽन्यथाजातीय इति । अनेन एतेन वेति । द्वितीयान्तादपि थमुर्भवत्येव । इममेतं वा प्रकारमापन्न इत्थंभूतः । अत्र च 'लक्षणेत्थंभूताख्यान-' इत्यादिसौत्रप्रयोगो लिङ्गम् । एतेन कथंभूतो व्याख्यातः । इत्थमिति । एतेतौ रथोः' इति इदम इतादेशः । “एतदः' इति योगविभागादेतदोऽपि इनादेश इति भावः । किमश्च । योगविभागः 'था हेतौ च छन्दसि-' इत्युत्तरसूत्रे किम एवानुवृत्तिर्यथा स्यादिदमो मा भूदिति।
इति तत्त्वबोधिन्या प्राग्दिशीयप्रकरणम् ।