________________
५६६ ]
सिद्धान्तकौमुदी। [तद्धितेषु प्राग्दिशीय(५-३-२२) एते निपात्यन्ते । 'समानस्य सभावो यस् चाहनि' (वा ३२४५) समानेऽहनि सद्यः। पूर्वपूर्वतरयोः परादेशः, उदारी च प्रत्ययौ संवत्सरे' (वा ३२४६)। पूर्वस्मिन्वरसरे परुत् । पूर्वतरे वत्सरे परारि । 'इदमः ( इश) समसण' (वा ३२४७)। अस्मिन्संवत्सरे ऐषमः । 'परस्मादेवव्यहनि' (वा ३२४८) । परस्मिन्नहनि परेद्यवि । 'इदमोऽश्भावो यश्च' ( वा ३२४६ ) अस्मिन्नहनि अद्य । 'पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य एद्युस् च' (वा ३२५०) पूर्वस्मिनहनि पूर्वेधुः । अन्यस्मिन्नहनि अन्येद्युः । उभयोरहोरुभयेयुः । 'घुश्चोभयाद्वक्तव्यः' (वा ३२५१)। उभयद्युः। १६७१ प्रकारवचने थाल । (५-३-२३) प्रकारवृत्तिभ्यः किमादिभ्यस्थाल्स्यात्स्वार्थे । तेन प्रकारेण तथा। यथा। १९७२ इदमस्थमुः। (५-३-२४) थालोऽपवादः । 'एतदो वाच्यः' (वा ३२३५)। 'पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य एास् च' इत्यपि भाष्यवाक्यम् । प्रकारवचने थाल् । पञ्चम्यर्थे सप्तमीत्याह । प्रकारवृत्तिभ्य इति । सामान्यस्य भेदको पि विशेषः प्रकारः। यथा बहुभिः प्रकारैर्भुङ्क्ते इति विशेषैरिति गम्यते । सादृश्यं त्विह न गृह्यते सर्वथेत्यादौ तदप्रतीतेः । तेन प्रकारेणेत्यनन्तरं विशिष्ट इति शेषः । 'यथा हरिः तथा हरः' इत्यादौ यत्प्रकारवान् हरिः तत्प्रकारवान् हर इति बोधे सति हरिसदृशो हर इति फलति । तदभिप्रायेण यथाशब्दस्य सादृश्यार्थकत्वोक्तिः । इदमस्थमुः । इदंशब्दात्प्रकारवृत्तेः थमुप्रत्ययः स्यादित्यर्थः । प्रत्यये उकार उच्चारणार्थः । मकारस्य उपदेशे अन्त्यत्वाभावान्नेत्त्वम् । यद्यपि 'न विभक्तो-' इति निषेधादेव मस्येत्त्वं न भवति । तथापि तदनित्यत्वज्ञापनार्थ मकारोच्चारणमित्याहुः । फादावेतादेशः । सद्यः परुत् । निपातनाद्विषयविशेषो लभ्यत इत्याह अहनीति । सप्तम्यन्तस्याहन्शब्दस्यार्थे इत्यर्थः । तदर्शयति समानेऽहनीति । पर उदारी चेति। पर इत्यादेशः, उदारी प्रत्ययौ । प्रकारवचने थाल । सामान्यस्य भेदको विशेषः प्रकारः । यथा ब्राह्मणसामान्यस्य माठरकाठकादय इति हरदत्तः । यद्यपि 'प्रकारे गुणवचनस्य' इत्यत्र सादृश्यं प्रकारस्तथापि नेह सादृश्यं गृह्यते अनभिधानात् । 'अव्ययं विभक्ति-' इति सूत्रे सादृश्यमपि यथाशब्दार्थ इत्युक्तम् , इह तु केवलस्य थाल्प्रत्ययस्य सादृश्यं नार्थः किं तु प्रकार एवेत्युक्तमिति नास्ति पूर्वापरविरोध इति बोध्यम् । तेन प्रकारेण तथेति । प्रथमान्तात्तु न भवति स प्रकारस्तथेति, अनभिधानादेवेति भावः । किं सर्वनामबहुभ्यो विशेषविहितेनापि थाला जातीयर् न बाध्यते अर्थभेदात् । प्रकारे हि थाल् । जातीयर् तु तद्वति स्वभावात् । एवं च कृत्वा प्रकारमात्रे थालं विधाय तदन्तात्प्रकारवति जातीयरं प्रयुञ्जते । तथाजातीयो यथा