________________
प्रकरणम् ३६ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ५६५
स्वार्थे अधुनाप्रत्ययः स्यात् । इश् । 'यस्य -' ( सू ३११ ) इति लोपः । अधुना । १६६७ दानीं च । ( ५-३ - १८) इदानीम् । १९६८ तदो दा च । ( ५-३ - ११) तदा तदानीम् । 'तदो दावचनमनर्थकम्, विहितत्वात्' (वा ३२४३) १९६६ अनद्यतने हिलन्यतरस्याम् । ( ५-३ - २१ ) कर्हि, कदा । यहि, यदा । तर्हि तदा । एतस्मिन्काले एतर्हि । १६७० सद्यः परुत्परायैषमः परेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेघुरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः । इति 'काले' इति चानुवर्तते । तदाह इदम इति । इशिति । 'इदम इश' इत्यनेनेति शेषः । अधुनेति । इयदितिवत् प्रत्ययमात्रं शिष्यते । पठन्ति चाभियुक्ताः 'उदितवति परस्मिन्प्रत्यये शास्त्रयोनौ गतवति विलयं च प्राकृतेऽपि प्रपञ्चे । सपदि पदमुदीतं केवलः प्रत्ययो यत् तदियदिति मिमीते कोऽधुना पण्डितोऽपि ।' इति वैयाकरणीमौपनिषदीं च प्रक्रियामाश्रित्य प्रवृत्तो घर्थोऽयं श्लोकः । दानीं च । इदमः सप्तम्यन्तात् कालवाचिनः स्वार्थे दानीमिति च प्रत्ययः स्यादित्यर्थः । इदानीमिति । इदंशब्दाद् दानीं प्रत्ययः, इश् । तदो दा च । सप्तम्यन्तात्कालवृत्तेः तद्शब्दाद् दाप्रत्ययः, दानीं प्रत्ययश्च स्यादित्यर्थः । तदो दावचनमिति । वार्तिकमिदम् । विहितत्वादिति । 'सर्वैकान्य-' इत्यनेनेति शेषः । अनद्यतने हिल् । अनद्यतनकालवृत्तिभ्यः किमादिभ्यः सप्तम्यन्तेभ्यो हिल्प्रत्ययो वा स्यादि - त्यर्थः । पते दाप्रत्ययः । एतस्मिन्काले एतहति । एतद्शब्दाद् हिल् । 'एतदः ' इति योगविभागाद् रेफादौ एतादेशः । सद्यःपरुत् । 'समानस्य सभावो द्यस् चाहनि' इति भाष्यवाक्यमिदम् । अहर्वृत्तेः समानशब्दात् सप्तम्यन्ताद् द्यस्प्रत्ययः । समानस्य सभावश्च निपात्यत इत्यर्थः । सद्यः समानेऽहनीत्यर्थः । 'पूर्वपूर्वतरयोः परादेश उदारी च संवत्सरे' इत्यपि भाष्यवाक्यम् । उच्च आरिश्चेति द्वन्द्वः । सप्तम्यन्तादिमौ प्रत्ययौ संवत्सरे अभिधेये । इदमः ( इश् ) समसग् इत्यपि भाष्यवाक्यम् । ऐषम इति । समसरिण णकार इत्, सकारादकार उच्चारणार्थः । णित्त्वादादिवृद्धिः । 'परस्मादेद्यव्यहनि ' इत्यपि भाष्यवाक्यम् । सप्तम्यन्ताद् एद्यविरिकारान्तः प्रत्ययः । 'इदमोऽश्भावो द्यश्च' इत्यपि भाष्यवाक्यम् । सप्तम्यन्ताद् अकारान्तो द्यप्रत्ययः ।
कदेति । किमः कः । एतहीति । 'एतेतौ रथोः' एत्येतादेशः । अधुनाप्रत्यय इति । निपातनान्मध्योदात्तोऽयम् । भाष्यमतं चेदम् । वृत्तिकारस्त्वाह — इदमो अश्भावो धुना च प्रत्यय इति । तत्र 'ऊडिदम् -' इत्यादिना विभक्तिस्वरः, स च 'आदेः परस्य' इत्यादेर्भवतीति हरदत्तः । दावचनमिति । 'तदश्च' इत्येव सूत्रं पठनीयमिति भावः । एतस्मिन्काले एतहति । 'एतदः' इति योगविभागाद्रे