________________
प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसहिता। [४२७ वैदूर्यो मणिः । १४६५ तद्गच्छति पथिदूतयोः। (४-३-८५) स्वघ्नं गच्छति स्रौनः पन्था दूतो वा । १४६६ अभिनिष्कामति द्वारम् । (४-३-८६) तद् इत्येव । सुन्नममिनिष्कामति सौनं कान्यकुब्जद्वारम् । १४६७ अधिकृत्य कृते ग्रन्थे । (४-३-८७ ) तद् इत्येव । शारीरकमधिकृत्य कृतो ग्रन्थः शारीरकीयः । 'शारीरकं भाष्यम्' इति स्वभेदोपचारात् । १४६८ शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः। (४-३-८८) शिशूनां क्रन्दनं शिशुक्रन्दः, तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः । यमस्य सभा यमसभम् । प्रभवतीत्येव । विदूरशब्दो दन्त्यमध्यः वालवायाख्यदेशपर्यायो विदूरशब्द इति भाष्ये स्पष्टम् । तद् गच्छति पथितयो। गच्छतीत्यर्थे द्वितीयान्तात्प्रत्ययाः स्युः, स चेद् गन्ता पन्था दूतो वा इत्यर्थः । अभिनिष्कामति द्वारम् । कान्येति । कान्यकुब्जाख्यजनपदस्य द्वारमित्यर्थः। अधिकृत्य । तदित्येवेति । अधिकृत्य कृतो ग्रन्थ इत्यर्थे द्वितीयान्तात्प्रत्ययाः स्युरित्यर्थः । शारीरकमिति । शरीर. स्यायं शारीरो जीवात्मा, तमित्यर्थः । 'तस्येदम्' इत्यणन्तात् स्वार्थे कः । शारीरकीय इति । वृद्धत्वाच्छः । शिशुक्रन्द । शिशुक्रन्द, यमसभ, द्वन्द्व, इन्द्रजननादि द्योतयति । तत्र पर्वते विदूरशब्दोऽप्रसिद्ध इति चेद् ब्रयाजित्वरीवधवहरेत् । नियतपुरुषापेक्षो हि व्यवहारो दृश्यते, यथा वणिज एव वाराणसी जित्वरीति व्यवहरन्ति एवं वैयाकरणा एवादि विदूर इति । तद्गच्छति । द्वितीयान्ताद्च्छतीत्यर्थे प्रत्ययः स्यात्स चेद्गन्ता पन्था वेत्यर्थः । तत्र साध्वसिश्छिनत्ति, काष्ठानि पचन्तीत्यादाविव करणस्य वातळ्यविवक्षया पन्थाः कर्ता । अभिनिष्कामति । द्वितीयान्तात्प्रत्ययः स्याद्यनिष्कामति तच्चेद् द्वारमित्यर्थः । सौनं कान्यकुब्जद्वारमिति । स्रनाभिमुखनिष्क्रमणे करणीभूतमिति फलितोऽर्थः । पूर्ववत्करणस्य कर्तृत्वम् । तदित्येवेति । 'अधिकृत्य' इत्येतदपेक्षयात्र द्वितीया । शारीरकीय इति । कुत्सितं शरीरं शरीरकं तत्सम्बन्धी शरीरको जीवात्मा तमधिकृत्य प्रस्तुत्य कृतो प्रन्थः शारीरकीयः चतुर्लक्षणीसूत्रसन्दर्भः । वृद्धाच्छः । अत्र वार्तिकम्'लुबाख्यायिकाभ्यो बहुलम्' इति । तादर्थ्य एषा चतुर्थी । आख्यायिका नाम गद्यरूपो ग्रन्थविशेषः। अतएवाख्यानाख्यायिकयोस्तत्र तत्र भेदेनोपादानम्। आख्यायिकाभिधानाय यः प्रत्यय उत्पन्नस्तस्य बहुलं लुगित्यर्थः । वासवदत्तामधिकृत्य कृता आख्यायिका वासवदत्ता । सुमनोहरा । क्वचिन्न, भैमरथी । अभेदोपचारेण गतार्थत्वानेदं वार्तिकमावश्यकमिति मूले नोक्तम् । शिशुक्रन्द । अत्र वार्तिकम्-'द्वन्द्वे देवासुरादिभ्यः