________________
४२८ ]
सिद्धान्तकौमुदी ।
[ तद्धितेषु शैषिकक्लीबत्वं निपातनात् । यमसभीयः । किरातार्जुनीयम् । इन्द्रजननादिराकृतिगणः । इन्द्रजननीयम् । विरुद्ध भोजनीयम् । १४६६ सोऽस्य निवासः । (४-३-८६ ) स्रघ्नो निवासोऽस्य स्रौघ्नः । १४७० श्रभिजनश्च । ( ४- ३ - ६० ) सन्नोऽभिजनोऽस्य स्त्रौघ्नः । यत्र स्वयं वसति स निवासः । यत्र पूर्वैर बितं सोऽभिजन इति विवेकः । १४७१ आयुधजीविभ्यश्छः पर्वते । ( ४-३ -६१ ) पर्वतवाचिनः प्रथमान्तादभिजनशब्दादस्येत्यर्थे छः स्यात् । हृद्गोलः पर्वतोऽभिजनो येषामायुधजीविनां ते हृद्गोलीयाः । ' श्रायुध' इति किम्-ऋक्षोदः पर्वतोऽभिजनो येषां एभ्यः छः स्यादधिकृत्य कृते ग्रन्थ इत्यर्थः । निपातनादिति । 'सभा राजा' इति तु नपुंसकत्वं न भवति । तत्र 'अमनुष्यशब्दो रूढ्या रक्षःपिताचादीनाह' इत्युक्तेरिति भावः । सोऽस्य निवासः । अस्मिन्नर्थे प्रथमान्तात्यत्ययाः स्युरित्यर्थः । 'यत्र संप्रत्युष्यते स निवास:' इति भाष्यम् । श्रभिजनश्च । स इत्यनुवर्तते । पूर्ववद्याख्येयम् । यत्र पूर्वैरुषितं सोऽभिजनः' इति भाष्यम् । यत्र स्वयमिति । उदाहृतभाष्यस्यायमर्थ इति भावः । आयुधजीविभ्यः । पर्वतादिति पाठान्तरम् । अभिजनशब्दादिति । अभिजनदेशवाचिन इत्यर्थः । आयुधजीविनोऽभिधातुमिति शेषः । सूत्रे 'क्रियार्थोपपदस्य -' इति चतुर्थी । हृद्गोल इति । पर्वतविशेषोप्रतिषेधः' । दैवासुरम् । राक्षोसुरम् । निपातनादिति । 'सभा राजा -' इति सूत्रे 'मनुष्यशब्दो रूढ्या रक्षः पिशाचादीनाह' इत्युक्तत्वात्तेन सूत्रेण क्लीबत्वं न सिध्यतीति भावः । सोऽस्य निवासः । स इति प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितः प्रत्ययः स्याद्यः प्रथमान्तार्थः स निवासश्चेत् । स्रुघ्नो निवास इति । निवासाधिकरणमित्यर्थः । नन्वस्येति कृद्योगे कर्तरि षष्टी । तथा च विशेषणविशेष्यभावव्यत्यासात् स्रघ्नाधिकरणवासकर्तेह वृत्त्यर्थः तथा च ' तत्र भवः' इत्येव सिद्धं किमनेनेति चेत् । अत्राहु:: - वासस्य चेतनमात्रकर्तृकतया प्रसिद्धत्वात्प्रकारकृतो भेदोऽस्तीति नास्ति वैयर्थ्यम् । 'वसन्ति हि प्रेम्णि गुणा न वस्तुनि' इत्यादौ तूपचारो बोध्य इति । अभिजनश्च । योगविभाग उत्तरार्थः । 'अभिजनाः पूर्वबान्धवाः' इति वृत्तिः । अभिजायते येभ्य इति व्युत्पत्तेरिति भावः । पूर्वबान्धवाः पित्रादयः । प्रज्ञादिः बन्धुशब्दः । पूर्वसूत्रादिह 'निवासः' इत्यनुवृत्तम् । तत्सामानाधिकरण्यादभिजनशब्दस्य तत्सम्बन्धिनि लक्षणा । एवं स्थिते फलितमाह – यत्र पूर्वैरिति । श्रायुधजीविभ्यः । तादयै एषा चतुर्थी । श्रायुधजीविभ्य श्रायुधजीव्यर्थम्, श्रायुधजीविनोऽभिधातुं प्रत्ययः स्यादित्यर्थः । 'सोस्याभिजनः' इत्यनुवर्तते, पर्वत इति प्रकृतिविशेषणं तदाह - - पर्वतवाचिन इत्यादि । पर्वत इति किम्, सांकाश्यकाः
७
,