SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसहिता। [४२६ ते पाझेदा द्विजाः । १४७२ शण्डिकादिभ्यो व्यः । (४-३-६२) शण्डिको ऽभिजनोऽस्य शाण्डिक्यः । १४७३ सिन्धुतक्षशिलादिभ्योऽणी । (४-३-६३ ) सिन्ध्वादिभ्योऽण् तक्षशिलादिभ्योऽञ् स्यादुक्तंऽर्थे । सैन्धवः । तक्षशिला नगरी अभिजनोऽस्य ताक्षशिलः । १४७४ तुदीसलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः । (४-३-६४) तुदी अभिजनोऽस्य तौदेयः । सालातुरीयः । वार्मतेयः । कौचवार्यः। १४७५ भक्तिः।(४-३-६५) 'सोऽस्य' इत्यनुवर्तते । भज्यते सेव्यत इति भक्तिः, सन्नो भक्तिरस्य स्रौनः । १४७६ अचित्ताददेशकालाद्वक् । (४-३-६६) अपूपा भनिरस्य श्रापपिकः । पायसिकः । 'अचित्तात्' किम्-दैवदत्तः । 'अदेशात्' किम्-स्रौनः । 'अकालात्' किम्-प्रेष्मः । १४७७ महाराजाट्ठञ् । (४-३-६७) माहाराजिकः । १४७८ वासुदेवार्जुनाभ्यां वुन् । (४-३-६८) वासुदेवकः। अर्जुनकः । ऽयम् । ऋक्षोद इति । अयमपि पर्वतविशेषः । शण्डिकादिभ्यो ज्यः । सोऽभिजन इत्यर्थे प्रथमान्तेभ्य इति शेषः । सिन्धुतक्ष । सैन्धव इति । सिन्धुर्देशविशेषः, अभिजनोऽस्येति विग्रहः । तुदीसलातुर । तुदी, सलातुर, वर्मति, कूच. वार एभ्यः प्रथमान्तेभ्यो ढक्, छग, ढञ्, यक्, एते स्युः अस्याभिजन इत्यर्थे । भक्तिः । अनुवर्तत इति । सोऽस्य भक्तिरित्यर्थे प्रथमान्तात्प्रत्ययाः स्युरित्यर्थः । अचित्ताददेश । देशकालव्यतिरिक्तादप्राणिवाचिनः ठक् स्यादुक्तविषये । अपूपा भक्तिरिति । सामान्याभिप्रायं भक्तिरित्येकवचनं वेदाः प्रमाणमितिवत् । पायसिक इति । पयो भक्तिरस्येति विग्रहः । महाराजा । सोऽस्य भक्तिरित्यर्थ इति शेषः । माहाराजिक इति । महाराजो भक्तिरस्येतिविग्रहः । वासुदेव । सोऽस्य भक्तिरित्येव । वासुदेवक इति । वासुदेवो भक्तिरस्येति विग्रहः । एवमर्जुनकः । ननु आयुधजीविनः । 'योपधात्-' इति वुञ् । शण्डिकादिभ्यो ऽयः। शण्डिका सर्वसेनशकेल्यादि । सिन्धुतक्ष । सिन्धु वर्ण गन्धार कम्बोजादयः सिन्ध्वादयः, ते तु प्रायेण कच्छादिष्वपि पठ्यन्ते । तेभ्योऽणि तत एव सिद्धे मनुष्यवुओ बाधनार्थ वचनम् । तक्षशिला वत्सोद्धरणा बर्बरेत्यादयस्तक्षशिलादयः । वासुदेवार्जुनाभ्यां वुन् । छाणोरपवादः । 'अजाद्यदन्तम्' 'अल्पाच्तरम्' इति सूत्राभ्यामर्जुनस्य पूर्वनिपाते प्राप्ते तस्याकरणं 'सर्वतोऽभ्यर्हितं पूर्व निपतति' इति ज्ञापनार्थम् । ननु वसुदेवस्यापत्यमित्यर्थे 'ऋष्यन्धक-' इत्यणि वासुदेवशब्दो निष्पन्नः। तथा च तत्र 'गोत्रक्षत्रियाख्येभ्यः-' इत्युत्तरसूत्रेण वुञवास्तु, किमनेन वुना । न यत्र वृद्धौ विशेषः, प्रागेव वृद्धत्वात् । न च 'वृद्धिनिमित्तस्य-' इति पुंवद्भावनिषेधो दोषः स्यादिति
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy