SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ४२६ ] सिद्धान्तकौमुदी | [तद्धितेषु शैषिक ? ● अनैश्वर्यम् । श्रक्षैत्रज्ञम् श्रचैत्रज्ञम् । श्रकौशलम् अकौशलम् । श्रनैपुणम्, अनैपुणम् । १४६१ हेतुमनुष्येभ्यो ऽन्यतरस्यां रूप्यः ( ४-३ - ८१ ) समादागतं समरूप्यम् । विषमरूप्यम् । पत्ते महादित्वाच्छः । समीयम् । विषमीयम् । देवदत्तरूप्यम् दैवदत्तम्, देवदत्तीयम् । १४६२ मयट् च । ( ४-३ - ८२ ) सममयम् । विषमयम् । देवदत्तमयम् । १४६३ प्रभवति । ( ४-३ - ८३ ) तत इत्येव । हिमवतः प्रभवति हैमवती गङ्गा । १४६४ विदूराञ्यः । ( ४-३-८४ ) विदूरात्प्रभवति अशुचेरागतमित्यर्थः । तत श्रागत इत्यणि पूर्वपदस्यादिवृद्धिविकल्पः । उत्तरपदस्य नित्यादिवृद्धिः । एवमग्रेऽपि प्रक्षेत्रज्ञाद् अकुशलाद् अनि णाच्च श्रागतमि त्यर्थो बोध्यः । श्रनैश्वर्यमित्यत्र तु ब्राह्मणादित्वाद् भावे ष्यञ् । हेतुभनुष्येभ्यः । तत श्रागत इत्येव | हेतुभ्य उदाहरति — समादागतमित्यादि । मनुष्यवाचिन उदाहरति-देवदत्तरूप्यमिति । मयट् च । उक्तविषय इति शेषः । प्रभवति । तत इत्येवेति । श्रागत इति तु निवृत्तम् । प्रभवतीत्यर्थे पत्र म्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । प्रभवः प्रथमप्रकाशः । हिमवतः प्रभवतोति । हिमवति प्रथमं प्रकाशत इत्यर्थः । 'भुवः प्रभवः' इत्यपादानत्वम् । विदू पञ्ञ्यः । ततः दृष्ट इतीद्दाप्यण्णन्ताद् वुञ् । हेतुमनुष्येभ्यो । मनुष्यग्रहणमहेत्वर्थम्, बहुवचनं तु स्वरूपविधिनिरासार्थम् । समरूप्यमिति । 'विभाषा गुणे -' इत्या 'विभाषा' इति योगविभागादगुणवचनादपि पञ्चमी । योगविभागे तु 'बाहुलकं प्रकृतेस्तदनुदृष्टेः' इति लिङ्गम् । मयट् च । योगविभागो यथासंख्यनिरासार्थः । टो ङीबर्थः । हैमवतीति । हिमवतः प्रकाशते । तत्र प्रथमं दृश्यत इत्यर्थः । उत्पत्तिवचनस्तु प्रभवतिर्न गृह्यते, 'तत्र जातः' इत्यतो भेदेन निर्देशात् । वैदूर्य इति । दन्त्यमध्योऽयं शाद्वलवत्, न तु नड्वलवन्मूर्धन्यमध्यः । नन्वत्रार्थसिंगतिः । बालवायपर्वतादसौ प्रभवति, विदूरनगरे तु संस्क्रियते । सत्यम्, अतएव समाहितं भाष्ये --' बालवायो विदूरं च प्रकृत्यन्तरमेव वा । न वै तत्रेति चेद्द्रयाज्जित्वरी दुपाचरेत्' इति । अस्यार्थः—बालवायशब्दः प्रत्ययं लभते विदूरादेशं च, सूत्रे पतेिनादेशेनानुरूपः स्थानी बालवायशब्द प्रक्षिप्यते । यथा शिवादिषु पठिताभ्यां विश्रव गरवणादेशाभ्यामनुरूपः स्थानी विश्रवश्शब्द श्राक्षिप्यते, यथा वा 'पन्न -' इत्यादौ गदाद्यादेशानुरूपः स्थानी पाददन्तादिराजिभ्यते, तद्वत् । प्रकृत्यन्तरमेवेति । विदूर शब्दो नगरस्येव पर्वतस्यापि वाचकोऽस्तीत्यर्थः । एवं चास्मिन्पत्ते 'बालवायात्प्रभवति' इति विग्रहे विदरशब्दात्प्रत्यय इति व्याख्यानक्लेशो नेति भावः । न वा इति । वैशब्दोऽक्षमां "
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy