________________
प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसहिता। [४२५ (४-३-७८) वुनोऽपवादः । हौतृकम् । भ्रातृकम् । १४५८ पितुर्यञ्च । (४-३-७६) चाट्ठम् । 'रीतः' (सू १२३४) 'यस्येति च' (सू ३११) इति लोपः । पित्र्यम् , पैतृकम् । १४५६ गोत्रादङ्कवत् । (४-३-८०) बिदेभ्म अागतं बैदम् । गार्गम् । दाक्षम् । औपगवकम् । १४६० नञः शुचीश्वरक्षेत्रशकुशलनिपुणानाम् । (७-३-३०) नजः परेषां शुच्यादिपञ्चानामादरचो वृद्धिः, पूर्वपदस्य तु वा निदादौ परे । प्राशौचम्, अशौचम् । अानैश्वर्यम् , इत्येव । हौतृकम् , भ्रातृकमिति । उकः परत्वात् ठस्य कः । पितुर्यच्च । यति प्रक्रियां दर्शयति-रीत्त इति । गोत्रादङ्कवत् । अङ्के ये प्रत्ययाः ते तत आगत इत्यर्थेऽपि भवन्तीत्यर्थः । बिदेभ्य आगतमिति । विग्रहप्रदर्शनम् । अत्र 'यजओश्च' इति बहुत्वे अओ लुकि विदेभ्य इति निर्देशः । बैदमिति । 'सङ्घाङ्कलक्षणेष्वन्यजिआमण' इत्युक्तेरअन्तादिहाप्यर्थे अणि विवक्षिते 'गोत्रेऽलुगचि' इत्यत्रो लुनिवृत्तौ बैदशब्दादण् । 'यजृद्ब्राह्मण-' इति यज्लक्षणस्य ठकोऽपवादः । गार्गमिति । यजन्तादण् । दाक्षमिति । इमन्तादण् । औपगवकमिति । उपगोरपत्यमौपगवः, तस्मादागतमित्यर्थः । ‘गोत्रचरणाद् वुञ्' इति वुन् । यद्यपि तस्येदमित्यर्थे अयं वुञ् विहितः, तथाप्यञ्यमिन्तादङ्केऽपि स दृष्ट इति तस्याप्यत्रार्थे अतिदेशो भवति । न हि 'संघाङ्क-' इति प्रतिपदोक्तस्याण एवात्रातिदेशः । किं तु अङ्के दृष्टस्य सर्वस्यापि, व्याख्यानादिति भावः । नञः शुचीश्वर । आदिवृद्धिप्रकरणे उत्तरपदस्य पूर्वस्य तु वेत्यनुवृत्ताविदं सूत्रम् । आशौचम् , अशौचम् इति । परत्वाद्बाधते । आचार्यकः । मातामहकः । मातुलकः । ऋतष्ठञ् । 'विद्यायोनिसम्बन्धेभ्यः' इति वर्तते, तदाह-वुओऽपवाद इति । 'उष्कञ्' इति वक्तव्ये तपरकरणं ठग्रहणं च चिन्त्यप्रयोजनमिति प्राञ्चः । पैतृकी विद्येत्यत्र ङीबर्थ ठग्रहणमिति तु तत्त्वम् । न च 'टिडा-' इति सूत्रे कञ्ग्रहणाद् डीप सिध्यतीति वाच्यम् , यादृशीतादृशीत्याद्यसिद्धेः । तदनुबन्धकग्रहणे नातदनुबन्धकस्य ग्रहणात् 'त्यदादिषु हश:-' इति कनो यनुबन्धकत्वात् । तपरकरणं विहाय 'उष्ठम्' इत्येव सुवचमित्याहुः । गोत्रादङ्कवत् । 'अपत्याधिकारादन्यत्र लौकिकं गोत्रम्' इत्युक्तम् । अपत्यप्रत्ययान्तात् 'तत आगतः' इत्यस्मिन्नर्थे अङ्कवत्प्रत्ययाः स्युः । अङ्के दृष्टस्य सर्वस्यायमतिदेशः, न तु साक्षाविहितस्यैवेत्याग्रहः तेन 'गोत्रचरणाद् वुञ्' इति वुअपि लभ्यते । स हि 'तस्येदम्' इति सामान्येन विधीयमानोऽपि अञ्यअिनन्तादन्यत्र अङ्केऽपि दृष्टः । बैदमित्यादि । 'सङ्घाङ्क-' इत्यादिना अङ्कार्थेऽण विहित इतीहाप्यध्यजिअन्तादण् । औपगवकमिति । 'गोत्रचरणात्-' इति वुम । अढे