________________
४२४ ]
सिद्धान्तकौमुदी। तद्धितेषु शैषिक (४-३-७३ ) ठनादेरपवादः । श्रार्गयनः । औपनिषदः । वैयाकरणः । १४५३ तत आगतः।(४-३-७४) सन्नादागतः स्रौनः । १४५४ ठगायस्थानेभ्यः। (४-३-७५) शुल्कशालाया पागतः शौल्कशालिकः । १४५५ शुण्डिकादिभ्योऽण । (४-३-७६) प्रायस्थानठकश्छादीनां चापवादः। शुण्डिकादागतः शौण्डिकः । कार्कणः । तैर्थः । औदपानः। १४५६ विद्यायोनिसंबन्धेभ्यो वुञ् । (४-३-७७) प्रौपाध्यायकः, पैतामहकः । १४५७ ऋतष्ठञ् । व्याख्याने तत्र भवे चेति शेषः । आर्गयन इति । ऋगयनम् ऋक्संहिता, तस्य व्याख्यानः तत्र भवो वेत्यर्थः । 'बचोऽन्तोदात्तात्' इति ठजि प्राप्ते अण् ।
औपनिषद इति । उपनिषदो व्याख्यानस्तत्र भवो वेत्यर्थः । एवं वैयाकरणः । 'न स्वाभ्याम्-' इत्यैच् । अरग्रहणं तु छबाधनार्थम् । अन्यथा प्रणा मुक्ते छो दुर्वार. स्यादित्याहुः । तत आगतः। अस्मिन्नर्थे पञ्चम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । स्रौन इति। औत्सर्गिकोऽण् । ठगायस्थानेभ्यः । तत अागत इत्यर्थे इति शेषः । हट्टादिषु स्वामिग्राह्यो भाग प्रायः। स यस्मिन् गृह्यते तदायस्थानम् , तद्वाचिभ्य इत्यर्थः । शुण्डिकादिभ्योऽण । तत श्रागत इत्येव । शुण्डिकमायस्थानविशेषः । पूर्वसूत्रविहितठगपवादः । कार्कण इति । कृकर गदागत इति शेषः । 'कृकणपर्णाद्भारद्वाजे' इति छस्यापवादः। तैर्थ इति । धूमादिवोऽपवादः । औदपान इति । अत्र उत्सादित्वाद प्राप्तो न भवति, पुनररग्रहण त् । अन्यथा यथाप्राप्तविधाने आयस्थानठकं. बाधित्वा अमेव स्यात् । विद्यायोनि । तत आगत इत्येव । औपाध्यायकः, पैतामहक इति । उपाध्यायापितामहाच श्रागत इत्यर्थः । ऋतष्ठञ् । ऋदन्ताद्विद्यायोनिसम्बन्धवाचिन इत्य: । तत श्रागत दिभ्यो भवव्याख्यानयोरर्थयोरण स्यात् । ठञादेरिति । आदिशब्दाहक्छयोः ।
आर्गयन इति । अयनशब्दो भावसाधनः, तेन समासे :प्रनो भावकर्मवचनः' इत्यन्तोदात्तः, अभेदोपचाराद्भाववचनोऽपि ग्रन्थे वर्तते । इह 'बह्वचोऽन्तोदात्तात्' इति ठञ् प्राप्तः । औपनिषद इत्यत्राप्येवम् । विद्यान्यायशिक्षाशब्देभ्यो 'द्यजद्ब्राह्मण-' इति ठक् प्राप्तः । व्याकरणशब्दात्तु 'वृद्धाच्छः' । ठगाय । एलानं स्वामी, स्वामिनमयमेतीति वाऽऽयः खामिग्राह्यो भागः । स यस्मिन्नुत्पद्यते तदायस्थानम् । बहुवचननिर्देशः स्वरूपग्रहणनिरासार्थः । वृद्धाच्छं परत्वादयं बाधते । प्राणिकः । प्राकरिकः। छादीनां चेति । कार्कण इत्यत्र 'कृकणपर्णाद्भारद्वाजे' इति छः प्राप्तः । तीर्थ. शब्दात्तु धूमादित्वाद् वुञ् प्राप्तः । उदपानशब्दस्योत्सादित्वाद प्राप्त इत्यर्थः। विद्यायोनि । विद्यायोनिकृतः सम्बन्धो येषां तेभ्यो वुञ् स्यादगोऽपवादः। छं तु