________________
प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसंहिता। [४२३ पौरोडाशपुरोडाशाष्ठन् । (५-३-७०) पुरोडाशसहचरितो मन्त्रः पुरोडाशः, स एव पौरोडाशः, ततः छन् । पौरोडाशिकः । पुरोडाशिकः।१४५० छन्दसो यदणौ। (४-३-७१) छन्दस्य , छान्दसः । १४५१ यजदब्राह्मणप्रथमाध्वरपुरश्वरणनामाख्याताट्ठक् ।(४-३-७२) ब्यचः-ऐष्टिकः (शैषिकः), पाशुकः ।
तः-चातुर्योतकः । ब्राझणिकः । प्रार्चिक इत्यादि । १४५२ अणगयनादिभ्यः वासिष्ठी ऋगिति । ऋचः अध्यायसमाख्याभावाद् न ठमिति भावः । पौरोडाश । उक्तविषय इति शेषः। पुरोडाशेति । पुरोडाशशब्दसहितो मन्त्रो लक्षणया पुरोडाश इत्युच्यत इत्यर्थः । स एव पौरोडाश इति । प्रज्ञादित्वात्स्वार्थेऽणिति भावः । पौरोडाशिक इति। पौरोडाशात् ष्ठनि रूपम् । पुरोडाशिक इति । पुरोडाशशब्दात् ठनि रूपम् । षित्त्वाद् ीष् । पौरोडाशिकी, पुरोडाशिकी । छन्दसो यदणी । तस्य व्याख्याने तत्र भवे चेति शेषः । छन्दस्यः, छन्दस इति । छन्दसां व्याख्यानः, तत्र भवो वेत्यर्थः । यज्लक्षणस्य वक्ष्यमाणस्य ठकोऽपवादः। यजदब्राह्मण । घच् , ऋत् , ब्राह्मण, ऋक्, प्रथम, अध्वर, पुरश्चरण, नामन् , भाख्यात एभ्यष्ठक् स्यात् तस्य व्या. ख्याने तत्र भवे च । शैषिक इति। शेषस्य व्याख्यानः तत्र भवो वेत्यर्थः । पाशुक इति । पशुयागप्रतिपादकप्रन्थः पशुः, तस्य ब्याख्यानः तत्र भवो वेत्यर्थः । उकः परत्वात् ठस्य कः । ऋत इति । उदाहियत इत्यर्थः । चातुर्योतक इति । 'चित्तिः स्रक्' इत्यादयो मन्त्राश्चतुर्होतारस्तैत्तिरीये प्रसिद्धाः । तेषां व्याख्यानः तंत्र भवो वेत्यर्थः । ब्राह्मणिक आर्चिक इति । ब्राह्मणानि मन्त्रव्यतिरिक्तवेद भागाः, तेषामृचां वा व्याख्यानः तत्र भवो वेत्यर्थः। इत्यादीति । प्राथमिकः, आध्वरिकः, पौरश्वरणिकः, नामिकः, आख्यातिकः । अणगयनादिभ्यः। तस्य वासिष्ठीति । भवार्थेऽण । पौरोडाश । षित्वान्छीष् । पौरोडाशिकी, पुरोडाशिकी। पुरोदाश्यते इति पुरोडाशः । 'दारी दाने कर्मणि घञ् । इहैव निपातनाद्दस्य डत्वम् । छन्दसो । छन्दःशब्दाद्भवव्याख्यानयोरथयोर्यदणौ स्तः, यज्लक्षणस्य ठकोऽपवादः । छन्दस्य इत्यादि । इहार्थवार्यदण्भ्यां यथासंख्यं भवत्यस्खरितत्वादिति बोध्यम् । द्यजृत् । अणोऽपवादः । चातुर्योतक इति । 'पृथिवी होता द्यौरध्वयुः' इत्यादिमन्त्रस्य चतु)तेति नामधेयम् । इत्यादीति । आदिशब्दात्प्राथमिकः । श्राध्वरिकः । पौरश्वरणिकः। 'नामाख्यातग्रहणं सातविगृही. तार्थम्' इति वार्तिकम् । तत्र नामशब्दाद् यच्वादेव सिद्धे विगृहीतग्रहणमाख्यातायमिति ज्ञेयम् । नामिकः । आख्यातिकः । नामाख्यातिकः । अणगयन । ऋगयना