________________
४२२ ]
सिद्धान्तकौमुदी ।
[ तद्धितेषु शैषिक
सिद्धे उभयोरुपादानसामर्थ्यादसोमका श्रपीह गृह्यन्ते । श्रग्निष्टोमस्य व्याख्यानस्तत्र भवो वा श्रनिष्टोमिकः । वाजपेयिक. । राजसूयिकः । पाकयज्ञिकः । नावयज्ञिकः । बहुवचनं स्वरूपविधिनिरासार्थम् । श्रनन्तोदात्तार्थ आरम्भः । १४४८ अध्यायेष्वेवर्षेः । (४-३-६६ ) ऋषिशब्देभ्यो लक्षणया व्याख्येयग्रन्थवृत्तिभ्यो भवे व्याख्याने चाध्याये ठञ् स्यात् । वसिष्ठेन दृष्टो मन्त्रो वसिष्टः, तस्य व्याख्यानः तत्र भवो वा वासिष्ठिकोऽध्यायः । 'अध्यायेषु' किम् - वासिष्ठी ऋक् । १४४६ गृह्यन्त इति । ततश्च इह क्रतुशब्देन सोमयागाः, यज्ञशब्देन र्ता इतरयागाः विवक्षिता इति भावः । एवं च सोमयागविशेषवाचिभ्यः, तदितरयागविशेषवाचिभ्यश्च उक्तविषये ठमित्यर्थः । पाकयक्षिक इति । औपासनाग्निसाध्याः पर्वणस्थालीपाकादयः पाकयज्ञाः । तेषां व्याख्यानो ग्रन्थः, तेषु भव इति वार्थः । नावयज्ञिक इति । नूतनद्रव्यक श्रामयणाख्यो यज्ञो नवयज्ञः । ननु पूर्वसूत्रेण सिद्धे किमर्थमिदमित्यत आह - अनन्तोदात्तार्थ इति । वाजपेयशब्दो मध्योदात्तः तैतेरीयादौ प्रसिद्धः । यद्यपि श्रग्निष्टोम शब्दः श्रन्तोदात्त एव तैत्तिरीये दृष्टः । नव यज्ञशब्दोऽपि षष्ठी. समासत्वात् समासस्वरेणान्तोदात्त एव । तथापि श्रन्यार्थमिदमन्तोदात्तेष्वपि परत्वात् प्रवर्तत इति न दोषः । अध्यायेष्वेवर्षेः । वसिष्ठेन दृष्टो मन्त्रो वसिष्ठ इति । लक्षणयेति भावः । वासिष्ठिकोऽध्याय इति । कश्चिद् ग्रन्थविशेषोऽयम् । अग्निष्टोमस्य व्याख्यान इति । श्रग्निष्टोमाद्यर्थेषु मन्त्रब्राह्मणकल्पेषु वर्तमाना श्रग्निष्टोमादिशब्दा इहोदाहरणम्, ग्रन्थानामेव व्याख्येयताया उक्तत्वादित्याहुः । स्तुतिः स्तोमः । अग्नेः स्तोमोऽस्मिन्निति बहुव्रीहिः । 'परादिश्च परान्तश्च' इत्यन्तोदात्तोऽयम् । पीयतेऽस्मिन्निति पेयः । 'कृत्यल्युटो बहुलम्' इत्यधिकरणे यत् । वाजो नाम यवागूभेदस्तस्य पेयो वाजपेयः । श्रयं हि कृदुत्तरपदप्रकृतिस्वरेण मध्योदात्तः । पेयशब्दस्य 'यतो नाव:' इत्युदात्तत्वात् । राज्ञा त्रियेण सूयते, राजा सोभः सूयते अत्रेति वा राजसूयः । 'राजसूयसूर्य -' इति क्यप् । तत एव निपातन समासः षष्ठीसमासो वा । श्रयमप्युत्तरपदप्रकृतिस्वरेण मध्योदात्त एव, धातुस्वरेण सूयशब्दस्यायुदात्तत्वात् । असोमकेभ्य उदाहरति - पाकेति । अल्पपर्यायः पात्र शब्दः । पाकश्वासौ यज्ञश्चेति कर्मधारयः । स च समासस्वरेणान्तोदात्तः । नवैत्र हिभिर्यजनं नवयज्ञः आप्रयणम् । 'यजयाचविच्छ-' इति नङ् । 'कर्तृकरणे कृत-' इति समासः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । अनन्तोदात्तार्थ इति । वाजपेयराजसूयार्थतया श्रस्मिन्नारब्धे सत्यन्तोदात्तादपि यज्ञाभिधायिनः परत्वादनेनैव भाव्यमित्याग्निष्टोमिक इत्याद्युदाहृतमिति भावः । अध्यायेष्वेवर्षेः । एवकारः स्पष्टप्रतिपत्त्यर्थः ।
1