________________
प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसहिता। [४२१ व्याख्यानः सौपो ग्रन्थः । तैङः । कार्तः । सुप्सु भवं सौपम् । १४४६ बह्वचोऽन्तोदात्ताञ् । (४-३-६७) षस्वणत्वयोर्विधायकं शास्त्रं षत्वणत्वम् । तस्य व्याख्यानस्तत्र भवो वा षास्वणत्विकः । १४४७ क्रतुयशेभ्यश्च । (४-३-६८) सोमसाध्येषु यागेष्वेतौ प्रसिद्धौ । तमान्यतरोपादानेन पवादः । वर्गान्ताच्च । कवर्गीयमिति । कादिवर्गे भवमित्यर्थः । अशब्दे । वर्गान्तात् छ इति शेषः । मद्वर्ग्यः, मद्वर्गीण इति । मत्पक्ष भव इत्यर्थः । कर्णललाटात् । 'शरीरावयवाच्च' इति यतोऽपवादः । कर्णिका ललाटिकेति । कर्णे ललाटे भवोऽलङ्कार इत्यर्थः । स्त्रीत्वं लोकात् । टापि 'प्रत्ययस्थात्-' इति इत्त्वम् । तस्य व्याख्यान इति च । व्याख्यायते अनेनेति व्याख्यानो ग्रन्थः, करणे ल्युट् । तस्य व्याख्यान इति विग्रहे व्याख्यातव्यग्रन्थ प्रतिपादकात् षष्ठपन्ताद् भव इत्यर्थे च सप्तम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः। चकारः 'तत्र भवः' इत्यस्य समुच्चयार्थः । सौप इति । श्रौत्सर्गिकोऽण् । तैङ इति । तिहा व्याख्यानो ग्रन्थ इत्यर्थः । कार्त इति । कृतां व्याख्यान इत्यर्थः। अणि आदिवृद्धौ रपरत्वम् । भवार्थे उदाहरति-सुप्सु भवं सौपमिति । नच 'तस्येदम्' 'तत्र भवः' इत्याभ्यामेव सिद्धत्वादिदं सूत्रं व्यर्थमिति वाच्यम् , अर्थद्रयनिर्देशस्य अपवादभूतवक्ष्यमाणठादिविधानायावश्यकत्वादिति भाष्ये स्पष्टम् । बचोऽन्तोदात्तादृञ् । अन्तोदात्ताद्बह्वच उक्तविषये ठञ् स्यात् । अणोऽपवादः । ऋतुयशेभ्यश्च । सोमेति । सोमलताद्रव्यकयागेषु क्रतुशब्दो यज्ञशब्दश्व प्रसिद्ध इत्यर्थः । तान्यतरग्रहणं व्यर्थम् , बहुवचनेन स्वरूपग्रहणनिवृत्तेरित्यत आह-तत्रेति। इति च । व्याख्यायते येन स व्याख्यानः। करणे ल्युट । इतिशब्दो वाक्यार्थ परामशति । तत्समीपे श्रूयमाणश्चकारः 'तत्र भवः' इति वाक्याथेमाक्षिपति । नाम प्रतिपादकम् , तच्च शक्त्या लक्षणया वेत्यत्र नाग्रहः । तथा च षष्ठयन्ताधाख्यानकरणार्थे, सप्तम्यन्तात्तु भवार्थे, व्याख्यातव्यस्य प्रन्थस्य प्रतिपादकात्प्रत्ययाः स्युः' इति सूत्रार्थः । व्याख्यातव्यनाम्रः किम् , पाटलीपुत्रस्य व्याख्यानी सुकोसला। पाटलीपुत्रो हि तया व्याख्यायते 'ईक्संनिवेशविशिष्टम्' इति । न विद्रं व्याख्यातव्यस्य नाम । मन्थेष्वेव व्याख्येयत्वस्य सुप्रसिद्धत्वात् , नाममहणं हि प्रसिधपसंग्रहार्थमेव सूत्रे कृतम् । बढ़चो। अणोऽपवादः । बहुचः किम् , घचष्ठकं वक्ष्यतीत्येकाच् प्रत्युदाहार्यः । सौपम् । तैलम् । अन्तोदात्तात्किम् , संहितायाः संहितम् । 'गतिरनन्तरः' इत्याद्युदात्तोऽयम् । अन्तग्रहणं स्पष्टप्रतिपत्त्यर्थम् । उदात्तादित्युळेऽपि वर्णमहणे तदन्तग्रहणाद् 'वर्णादनुदात्तात्-' इत्यत्र यथा । ऋतुयझेभ्यश्च ।