________________
४२० ]
सिद्धान्तकौमुदी। [तद्धितेषु शैषिक(७-३-२०) एषामुभयपदवृद्धिः स्याद् मिति णिति किति च । प्राधिदैविकम् । प्राधिभौतिकम् । ऐहलौकिकम्। पारलौकिकम् । अध्यात्मादिगकृतिगणः। १४३६ देविकाशिंशपादित्यवादीर्घसत्रश्रेयसामात् । (७-३-१) एषां पञ्चानां वृद्धिप्राप्तावादेरच श्राद् जिति णिति किति च । दाविकम । देविकाकूले भवा दाविकाकूलाः शालयः । शिशपाया विकारः शांशपश्चमलः 'पलाशादिभ्यो वा' (स १५२१) इत्यञ् । दित्यौह इदं दात्यौहम् । दीर्घसत्रे भवं दार्घसत्रम् । श्रेयसि भवं श्रायसम् । १४४० ग्रामात्पर्यनुपूर्वात् । (४-:-६१) ठञ् स्यात् । 'अव्ययीभावात्' इत्येव । पारिग्रामिकः । प्रानुग्रामिकः । १४४१ जिह्वामूलाङ्गले श्छः।(४-३-६२) जिह्वामूलीयम् । अङ्गलीयम् । १४४२ वगान्ताच्च।(४-३-६३) कवर्गीयम् । १४४३ अशब्दे यत्खावन्यतरस्याम् । (४.३-६४) पक्ष पूर्वेण छः । मद्वयः, मवर्गीणः, मद्वर्गीयः । अशब्दे किम्-कवर्गीयो वणः । १४४४ कर्णललाटात्कनलङ्कारे । (४-३-६५) कर्णिका । ललाटिका । १४४५ तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः । ४-३-६६) सुपां आदिवृद्धिप्रकरणे उत्तरपदस्य, पूर्वपदस्य चेत्यधिकारे इदं सूत्रम् , तदाह-एषामिति । आधिदैविकमिति । देवेष्वित्यधिदेवम् , तत्र भवमित्यर्थः । ठनि उभयपदवृद्धिः । प्राधिभौतिकमिति । भूतेष्वित्यधिभूतम् । तत्र भवमित्यर्थः । ऐहलौकिकमिति । इह लोके भवमित्यर्थः । पारलौकिकमिति । परलोके वमित्यर्थः । सर्वत्र ठजि उभयपदवृद्धिः । देविका । आदिवृद्धि प्रकरणे इदं सूत्रम् । एषामिति । देविका, शिंशपा, दित्यवाद , दीर्घसत्र, श्रेयस इत्येषामित्यर्थः । वृद्धिप्राप्ताविति । आदिवृद्धिप्राप्तौ तदपवादत्वेन यादरच शाकारः स्यादित्यर्थः । दाविकमिति । देविका नाम नदी, तस्यां भवमित्यर्थः । दाविकाकूला इति । उत्तरपदवृद्धिभ्रमनिरासाय इदमुदाहरणम् , अस्य सूत्रस्य तदधिकारबहिर्भूतत्यादिति भावः । शांशप इति । इकारस्य आकारः, अनि वृद्धिः, शिपाशब्दस्य पलाशादौ पाठात् पाक्षिकोऽञ् । तदभावेऽणित्यर्थः । दात्यौहमिति । दित्यवाहशब्दात् 'तस्येदम्' इत्यणि 'वाह ऊल्' इति संप्रसारणम् , पूर्वरूपम् एत्येधत्यूठसु' इति वृद्धिः । इकारस्य आदिवृद्धथपवाद श्राकारः । दार्घसत्रमिति । 'तस्येदम्' इत्यण, आदेरीकारस्य आकारः। श्रायसमिति । तत्र भव इत्यणि एकारस्य श्राकारः । ग्रामात्पर्यनुपूर्वात् । ठञ् स्यादिति । 'अन्तः पूर्वपदात्-' इत्यतः तदनुवृत्तेरिति भावः । जिह्वामूलागुलेश्छः। 'शरीरावयवाच्च' इति यतोऽ. कर्णललाटात् । यतोऽपवादः । अलङ्कारे किम् , कराये ललाट्यम् । तस्य व्याख्यान