________________
प्रकणरम् २८] बालमनोरमात्तत्त्वबोधिनीसहिता। [४१६ (४-३-५८) गम्भीरे भवं गाम्भीर्यम् । 'पञ्चजनादुपसंख्यानम्' (वा २८५८) पाञ्चजन्यम् । १४३६ अव्ययीभावाच । (४-३-५६) परिमुखं भवं पारिमुख्यम् । 'परिमुखादिभ्य एवेष्यते' (वा २८६६)। नेह-औपकूलः। १४३७ अन्तःपूर्वपदाञ् । (४-३-६०)'प्रग्ययीभावात्' इत्येव । वेश्मनीत्यन्तर्वेश्मम् । तत्र भवमान्तर्वेश्मिकम् । श्रान्तर्गणिकम् । 'अध्यात्मादेष्ठमिष्यते' ( वा २८६६ ) अध्यात्मं भवं प्राध्यास्मिकम् । १४३८ अनुशतिकादीनां च एफ तद्धितः' इति ष्फः स्यात् । अव्ययीभावाच । ज्य इति शेषः । परिमुखादिभ्य इति । यद्यपीदं वार्तिकं भाष्ये न दृष्टम् , तथापि दिगादिगणपाठानन्तरं पारमुखादिगणपाठसामर्थ्यादिहाव्ययीभावपदं परिमुखादिपरमिति गम्यते । न ह्यष्टाध्याय्यां परिमुखादिगणस्य कार्यान्तरमस्ति । औपकूल इति । उपकूलं भव इत्यथः । अव्ययीभावत्वेऽपि परिमुखाद्यनन्तर्भावाद् न ज्यः। अन्तःपूर्वपदाट्ठञ् । वेश्मनीत्यन्तर्वेश्ममिति । विभक्त्यर्थे अव्ययीभावः। 'मनश्च' इति टच् । आन्तवैश्मिकमिति । ठञ् , इकः, सुन्लुक्, टिलोपः, आदिवृद्धिः। प्रान्तर्गणिकमिति । गणे इत्यन्तर्गणम् । तत्र भवमित्यर्थः । आध्यात्मिकमिति । श्रात्मनीत्य यात्मम् । तत्र भवमित्यर्थः । अनुशतिकादीनां च । एव। ग्रैवेयमित्यादि । प्रीवासु भवं ग्रीवायामिति वा विग्रहः । गम्भीरा ज्यः। पञ्चजनादुपसंख्यानमिति । पाञ्चजन्यम् । परिमुखमिति । यदि परिशब्दादिह वजनं गम्यते, तदा 'अपपरिबहिरञ्चवः पञ्चम्या' इत्यव्ययीभावः । यदि तु सर्वतोभावः, तदा त्वस्मादेव निपातनादव्ययीभाव इत्याहुः। परिमुखादिभ्य एवेति । अयं भावः-दिगादिगणानन्तरं परिमुख, परिहनु, पर्योष्ठ, पर्युलूखलेत्यादि परिमुखादिगणः पठ्यते, तत्साहचर्यादिह सूत्रे अव्ययीभावशब्देन परिमुखादिरेव गृह्यते । तस्य गणस्य कार्यान्तराभावादिति । नन्वेवं 'परिमुखादेः' इति सूत्रं विशिष्यैव क्रियताम् , किमनेन प्रयासेन । उत्तरत्र 'अव्ययीभावात्' इत्यस्यापेक्षायामपि तत्रैव तत्करणौचित्यादिति चेत् । अत्राह हरदत्तः-'परिमुखादेः' इत्युच्यमाने बहुव्रीहितत्पुरुषेभ्योऽपि नः स्यात् , अव्ययीभावग्रहणात्तु तेभ्योऽणेव भवतीति । परिमुखादिगणे प्रतिशाखशब्दोऽपि बोध्यः । तथा च 'शाख व्याप्तौ' इति धातौ प्रतिशाखं भवं प्रातिशाख्यम् , 'अव्ययीभावाच' इति भवार्थे म इति माधवः । अन्तर्वेश्ममिति । 'नपुसकादन्यतरस्याम्' इति समासान्तष्टच् । अध्यात्ममिति । 'अनश्च' इति टच् ।
१ आदिपदात् प्रतिशाखं भवं प्रातिशाख्यं व्याकरणम् , तच्च शौनकीयं तैत्तिरीयं कात्यायनीयम् आयर्वणिकं च तत्तच्छाखायां नियतं वर्तते ।