________________
प्रकरणम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ७६ 'गोत्रं च चरणैः सह' इति जातित्वम् । ७४३ किं क्षेपे । (२-१-६४) कुत्सितो राजा किंराजा, यो न रक्षति । ७४४ पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूतैर्जातिः । ( २-१-६५ ) ७४५ तत्पुरुषः समानाधिकरणः कर्मधारयः । ( १-२-४२ ) ७४६ पुंवत्कर्मधारयजातीयदेशीयेषु । (६-३-४२) कर्मधारये जातीयदेशीययोश्च प्रवृत्तेरित्यत आह-- गोत्रं चेति । अत्र कतमशब्दस्य जातिपरिप्रश्न एव व्युत्पादनात् कतरार्थमेव जातिपरिप्रश्नग्रहणम् । एवं च अनयोः कतरो देवदत्त इत्यत्र न भवति समासः । एषां कतमो देवदत्त इति तु नास्त्येव । जातिपरिप्रश्न एव डतमचो विधानात् । वस्तुतस्तु डत रडतमविधौ द्वयोरिति बहूनामिति जातिपरिप्रश्ने इति प्रत्याख्यातं भाष्ये । एवं च काम एषां देवदत्त इत्यप्यस्ति । तत्र समासाभावाय ज्ञातपरिप्रश्नग्रहणम् इति शब्देन्दुशेखरे स्थितम् । किं क्षेपे । क्षेपो निन्दा । तत्र गम्ये किमित्यव्ययं समानाधिकर णेन समस्यते स तत्पुरुष इत्यर्थः । कुत्सितो राजेति । अस्खपदविग्रहोऽयम् । किम् पदस्थाने कुत्सितपदमिति ज्ञेयम्, वाक्येन निन्दानवगमेन स्वपदलौकिकविग्रहासम्भवत् । किंराजेति । ' राजाहस्सखिभ्यः -' इति टच् तु न, 'किमः क्षेप' इति निषेधात् । ननु राज्ञो बहुसम्पत्तिशालिनः कथं कुत्सितत्वमित्यत आह--यो न रक्षतीति । स किंराजेश्यन्वयः ।
9
पोटायुवति । पोटादिभिः समानाधिकरणैर्जातिवाचकं समस्यते स तत्पुरुष इत्यर्थः । अथ कर्मधारयकार्यं वक्ष्यन् कर्मधारय संज्ञामाह - तत्पुरुषः समान । समानम् एकमधिकरणं वाच्यं ययोः पदयोः, ते समानाधिकरणे पदे, ते अस्य स्तइति समानाधिकरणः, मत्वर्थीय: श्रश्रद्यच् । समानाधिकरणानेकपदावयवकस्तत्पुरुषः कर्मधारसंज्ञको भवतीत्यर्थः । तत्पुरुषाधिकारे इयं संज्ञा न कृता, तथा सत्येकसंज्ञाधिकारात् कर्मधारयसंज्ञया तत्पुरुषसंज्ञा बाध्येतेत्याहुः । पुंवत्कर्मधारय । स्त्रियाः पुंवद्भाषितपुंस्कादनूङिति वर्तते । एकापि सप्तमी विषयभेदाद्भिद्यते । कर्मधारयांश अधिकरणसप्तमी । जाती देशीयविषये परसप्तमी । तदाह — कर्मधारय इति । तथाभूतमित्यनन्तरं स्त्रीवाचकमिति शेषः । भाषितपुंस्कादनूङित्येतत् 'स्त्रियाः पुंवत् - ' इति सूत्रे स्फुटीकरिष्यते । ननु कर्मधारये 'स्त्रियाः पुंवत् -' इत्यनेन सिद्धं पुंवत्त्वम्,
1
न्तरेऽपि साधुः' इति। तथा च प्रत्युदाहृतं प्राचीनवृत्तिषु ' कतरो भवतोर्देवदत्तः । कतमो भवतां देवदत्तः' इनि । किं क्षेपे । किंराजेति । 'किमः क्षेपे' इति समासान्तनिषेधः। क्षेपे किम्, को राजा पाटलिपुत्रे ? । एवं 'किंसखा यो द्रुह्यति' 'किंगौः यो न वहति' इत्यप्युदाहरणं बोध्यम् । तत्पुरुषः । समानाधिकरणशब्दः अर्शआय
1