________________
७८]
सिद्धान्तकौमुदी। [तत्पुरुषसमासमायेन महत भाकारः । महावैयाकरणः । पूज्यमानैः किम्-उत्कृष्टो गौः । पवाद् उद्धत इत्यर्थः । वृन्दारकनागकुखरैः पूज्यमानम् । (२-१-६२) गोवृन्दारकः । व्याघ्रादेराकृतिगणवादेव सिद्धे सामान्यप्रयोगार्थं वचनम् । ७४२ कतरकतमौ जातिपरिप्रश्ने । (२-१-६३) कतरकठः । कतमकलापः। शास्त्रकूलंकषज्ञानत्वं सत्त्वम् । तेन वैद्यस्य पूजा गम्यते । पूर्वनिपातनियमार्थ सूत्रम् । वदयमाणेनेति । महाश्चासौ वैयाकरणश्चेति विग्रहे अनेन समासे सति महच्छब्दस्य 'प्रान्महतः-' इति वक्ष्यमाणेन आकारे अन्तादेशे सवर्णदीर्घ महावैयाकरण इति भवतीत्यर्थः । ननु उत्कृष्टो गौरित्यत्रोत्कृष्टशब्दस्य अतिशयितवाचितया तेन गोः पूजावगमात् कथमिह समासो न भवतीत्यत आह-पङ्कादुधृत इत्यर्थ इति । उत्पूर्वकः कृषधातुरिहोदरणार्थक इति भावः । परमवैद्यः, उत्तमवैद्यः, उत्कृष्टवैद्यः । गुणक्रियाशब्दैः समासे सदादीनां पूर्वनिपातनियमार्थमिदं सूत्रम् । वृन्दारकनागकुञ्जरैः। समानाधिकरणैः समस्यत इति शेषः। विशेषणसमासेनव सिद्धे विशेष्यस्य पूर्वनिपातनियमार्थ सूत्रम् । गोवृन्दारक इति। वृन्दारकशब्दो देवतावाची । 'अमरा निर्जरा देवाः' इत्युपक्रम्य 'वृन्दारका दैवतानि' इत्यमरः । गौः वृन्दारक इवेति विग्रहः । गौः नाग इव गोनागः । गौः कुञ्जर इव गोकुञ्जरः । नागशब्दः कुञ्जरशब्दश्च गजवाची । अत्र गोन्दारकादितुल्यत्वात् श्रेष्ठयं गम्यत इति पूज्यमानता । ननु व्याघ्रादेराकृतिगणत्वाद् 'उपमितं व्याघ्रादिभिः-' इत्येव सिद्धे किमर्थमिदमित्यत श्राह--व्याघ्रादेरिति । सामान्येति । गोकुञ्जरः श्रेष्ठ इत्यादाविति भावः । कतरकतमौ । जातिपारिप्रश्ने गम्ये कतरकतमौ समानाधिकरणेन समस्येते इत्यर्थः । कतरकठ इति । अनयोः कः कठ इत्यर्थः । “किंयत्तदोर्निर्धारणे द्वयो. रेकस्य डतरच्' कठेन प्रोक्तमधीते कठः । वैशम्पायनान्तेवासित्वात् प्रोक्ते णिनिः । 'कठचरकाल्लुक्' इति तस्य लुक् । ततः 'तदधीते-' इत्यणः 'प्रोक्ताल्लुक्' इति लुक् । कतमकलाप इति । एषां कः कलाप इति विग्रहः । कलापिना प्रोक्तमधीते कलापः। 'कलापिनोऽण ' 'सब्रह्मचारि' इति टिलोपः। 'वा बहूनां जातिपरिप्रश्ने डतमच्' । ननु घटत्वादिवत् कठशाखाध्येतृत्वादिकं न जातिः । 'प्राकृतिग्रहणा जातिः' इति लक्षणस्य 'लिङ्गानां च न सर्वभा', 'सकृदाख्यातनिर्याह्या' इति लक्षणस्य च तत्रायदुत्तरपदं पूजक इति तस्य लोपो ज्ञेयः । सन्महत् । गुणक्रियाशब्दैः सह समासे सदादीनां पूर्वनिपातनियमार्थ सूत्रम् । कतरकतमौ । जातिपरिप्रश्ने किम् । कतरो देवदत्तः। 'वा बहूनां जातिपरिप्रश्ने डतमच्' इति व्युत्पादितकतमशब्दसाहचर्यात्तादृशस्यैव कतरशब्दस्यापि ग्रहणे सिद्धे जातिपरिप्रश्नग्रहणं शापयति 'कतमशब्दोऽर्था.