________________
प्रकरणम् १८ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ७७
नञ्विशिष्टेनानञ् । ( २-१-६० ) नव्विशिष्टेन क्लान्तेनानम् क्लान्तं समस्यते । कृतं च तदकृतं च कृताकृतम् । 'शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम्' ( वा १३१० ) । शाकप्रियः पार्थिवः शाकपार्थिवः । देवब्राह्मणः । ७४० सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः । (२-१-६१) सद्वैद्यः । वचय
जीवितुमसमर्था इदानीं तेन जीवितुं समर्थाः कृता इत्यर्थे समासे सति श्रेणिकृताः ' इति भवतीत्यर्थः । श्राणशब्दो हस्वान्तः भाष्ये तथैवोदाहरणात् । यदा तु सिद्धा एव श्रेणयः परिष्कृत स्तदा तु न समासः, च्व्यर्थाभावात् । विप्रत्ययान्तस्य तु पर त्वात् 'कुगति-' इति नित्यसमासः । ततः 'च्वौ च' इति श्रेणिशब्दस्य दीर्घः । क्तेन नञ्वशिष्टेन नञ् । नञ्विशिष्टेन क्लान्तेन समानाधिकरणेन सह नत्रहितं क्लान्तं समस्यते, स तत्पुरुष इत्यर्थः । कृतं च तदिति । एकदेशस्य करणात्कृतम्, एक देशान्तरस्याकरणात्तदेवाकृतम् । पूर्वनिपातनियमार्थम् । सिद्धं च तदभुक्तं चेत्यत्र तु नायं समासः, विशिष्ट शब्दो ह्यत्राधिकवाची । यथा देवदत्ताद्यज्ञदत्तः स्वाध्यायेन विशिष्ट इत्युक्ते अधिक इति गम्यते । नञैव विशिष्टं नञ्मात्राधिकेन क्तान्तेनेति लभ्यते । एवं च समानप्रकृतिकत्वं क्लान्तयोः पर्यवसन्नमिति बोध्यम् । शाकपार्थिवादीनामिति । 'बर्णो वर्णेन' इति सूत्रभाष्ये इदं वार्तिकं पठितम् । शाकप्रियः पार्थिवः शाकपार्थिव इति । शाकः प्रियो यस्य स शाकप्रियः । ' वा प्रियस्य' इति प्रियशब्दस्य परनिपातः शाकप्रियश्चासौ पार्थिवश्च इति विग्रहे बहुव्रीहिगर्भो विशेषणसमासः । तत्र पूर्वखर डे बहुव्रीहौ उत्तरपदस्य प्रियशब्दस्य लोपः । देवब्राह्मण इति । देवाः प्रिया यस्य स देवप्रियः, स चासौ ब्राह्मणश्चेति विग्रहः । पूर्ववदुत्तरपदलोपः । देवपूजको ब्राह्मण इति वा विग्रहः | सन्महत्परम । समानाधिकरणैः समस्यन्ते, स तत्पुरुष इति शेषः । सद्वैद्य इति । सन् वैद्य इति विग्रहः । चिकित्सा
1
यः श्रेय इति । एकेन शिल्पेन परायेन वा ये जीवन्ति तेषां समूहः श्रेणिः । च्व्यन्तानां तु ‘कुगति-' इति नित्यसमासः, परत्वात् । श्रेणीकृतम् । इह तु 'च्वौ च' इति दीर्घः । क्तेन । विशिष्टशब्दोऽवधारणार्थः । नञ्मात्राधिकेन नजरहितं समस्यत इति सूत्रार्थः । तेनेह न - सिद्धं चाभुक्तं च । नुडिडधिकेनापीति वाच्यम् । अशितं चानशितं च प्रशितानशितम् । क्लिष्टाक्लिशितम् । 'क्लिशः क्त्वानिष्ठयोः' इति वेट् । कृताकृतमिति । एकदेशकरणात्कृतम् । एकदेशान्तरस्याकरणात्तदेवाकृतम् शाकपार्थिव इति । पृथिव्या ईश्वरः पार्थिवः । ' तस्येश्वरः' इत्यण् । शाकप्रिय इति बहुव्रीहिः, तस्य पार्थिवशब्देन समासे कृते पूर्वसमासे यदुत्तरपदं प्रिय इति तस्य लोपः । तथा देवब्राह्मण इत्यत्र देवस्य पूजको देवपूजक इति पूर्वस्मिन् षष्ठीसमासे