________________
७६ ]
सिद्धान्तकौमुदी ।
[ तत्पुरुषसमास.
मध्यमध्यमवीराश्च । (२-१-५८) पूर्वनिपातनियमार्थमिदम् । पूर्ववैयाकरणाः । अपराध्यापकः । 'अपरस्पार्धे पश्चभावो वक्तव्य:' (वा ३२५३ ) अपरश्वासावर्धश्च पश्चार्धः । कथम् 'एकवीरः' इति । 'पूर्वकालैक-' ( सू ७२६ ) इति बाधित्वा परस्वादनेन समासे 'वीरकः' इति हि स्यात् । बहुलग्रहणाद्भविष्यति । ७३८ श्रेण्यादयः कृतादिभिः । ( २-१-५६ ) ' श्रेण्यादिषु व्यर्थवचनं कर्तव्यम्' ( वा १२६६ ) । अश्रेणयः श्रेणयः कृताः श्रेणिकृताः । ७३६ लेन नैव सिद्धे किमर्थमिदमित्यत आह- पूर्वनिपातेति । अपराध्यापक इति । बहुलग्रहणानुवृत्त्या पाचकादिक्रियाशब्दैः पूर्वादीनामेषां न समास इति समर्थसूत्रे भाष्ये स्थितम् । ततश्च 'अपराध्यापकः' इत्युदाहरणमुपेक्ष्यम् । अपरमीमांसक इत्युदाहरणमुचितम् । श्रपरस्यार्थ इति । 'पश्चात्' इति सूत्रभाष्ये इदं वार्तिकं स्थितम् । प्रथमवैयाकरणः, चरमवैयाकरणः, 'मध्यान्मः' मध्यमवैयाकरणः, वीरवैयाकरणः 1
त्रिपति — कथमेकवीर इति । हि यतः, श्रनेन प्रकृतसूत्रेण, वीरशब्दस्यैकशब्देन समासे सति वीरशब्दस्य पूर्वनिपाते सति वीरैक इति स्यात् । अतः 'एकवीरः ' इति कथमित्यन्वयः । ननु ' पूर्वकालेक -' इति सूत्रेणैकशब्दस्य वीरशब्देन समासे सति ‘एकवीरः' इति निर्बाधमित्यत आह- पूर्वकालै केति बाधित्वा परत्वादिति । परिहरति--- बहुलग्रहणादिति । बहुलग्रहणानुवृत्तेरस्य सूत्रस्याप्रवृत्तौ पूर्वकालेत्येव समासो भवतीत्यर्थः । श्रेण्यादयः । श्रेण्यादयः कृतादिभिः समानाधिकरणैः समस्यन्ते, स तत्पुरुष इत्यर्थः । श्रेण्यादिष्विति । श्रेण्यादिषु समासविधौ च्व्यर्थवचनम् - विप्रत्ययार्थेऽभूततद्भावे गम्ये श्रेण्यादीनां समासो वक्तव्य इत्यर्थः । श्रश्रेय इति । शिल्पेन परायेन वा जीविनां समूहाः श्रेणयः । पूर्व शिल्पेन परायेन वा जातिशब्दस्य गुणक्रियाशब्दसमभिव्याहारे विशेष्यसमर्पकतैव । तेन नीलोत्पलं पाचकब्राह्मण इति व्यवस्थित एव प्रयोगः । गुणशब्दयोः क्रियाशब्दयोर्गुणक्रियाशब्दयोश्चानियम एव । खञ्जकुब्जः कुब्जखजः । पाचकपाठकः पाठकपाचकः । खजपाचकः पाचकखञ्ज इति । अत्र मूलमुपसर्जनमिति महासंज्ञा । अप्रधानं ह्युपसर्जनम् । गुण क्रिययोश्च द्रव्यं प्रत्यप्राधान्यं स्पष्टमेवेति । श्रपरस्यार्ध इति एतच 'पश्चात् ' इति सूत्रे भाष्ये स्थितम् । बहुलग्रहणादिति । एकेषु मुख्येषु वीरयते पराक्रमते इति वा बोध्यम् । श्रेण्यादयः । आद्य आदिशब्दो व्यवस्थावाची । द्वितीयस्तु प्रकारवाची । 'श्रेण्यादयः पठ्यन्ते, कृतादिराकृतिगणः' इति भाष्यात् । श्रेणि, एक, पूग, मुकुन्द, शशि, विशिख, निचय. निधनादिः श्रेण्यादिः । कृत, मित, मत. भूतादिः कृतादिः यदा तु सिद्धा एव श्रेणयः सम्यक् कृतास्तदा समासो नेष्यत इत्याशयेनाह - अश्वे.