________________
प्रकरणम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [७५ बहुलं प्राग्वत् । नीलमुत्पलं नीलोत्पलम् । बहुलग्रहणात् क्वचिन्नित्यम्, कृष्णसर्पः । क्वचिन्न, रामो जामदग्न्यः । ७३७ पूर्वापरप्रथमचरमजघन्यसमानतम् , तदाह-भेदकमिति । प्राग्वदिति । समस्यते स तत्पुरुष इत्यर्थः । नीलमुत्पलं नीलोत्पलमिति । नीलपदं तावदुत्पलमनीलादुत्पलायावर्तयतीति विशेषणसमर्पकम् । तस्य उत्पलपदेन विशेष्यसमर्पकेण समासः । प्रथमानिर्दिष्टत्वाद्विशेषणस्य पूर्वनिपात इति भावः । न च उत्पलपदम् अनुत्पलान्नीलं व्यावर्तयतीत्युत्पलपदस्यापि विशेषणत्वं स्यादिति वाच्यम् , जातिशब्दो गुणक्रियाशब्दसमभिव्याहारे विशेष्यसमर्पक एव, न तु विशेषणसमर्पकः, स्वभावात् । यथा--नीलोत्पलम् , पाचकब्राह्मण इति । गुणशब्दयोः समभिव्याहारे विशेषणविशेष्यभावस्य न नियमः । यथा-खजकुब्जः कुब्जखञ्ज इति । क्रियाशब्दयोरप्यनियमः । यथा-पाचकपाठकः पाठक पीचक इति । तथा गुणक्रियाशब्दयोरप्यनियमः । यथा-खजपाचकः पाचकखज इति भाष्ये स्पष्टम् । तथा कैलासादिः, मन्दरादिः, अयोध्यानगरी इत्यादौ संज्ञाशब्दा अपि विशेषणसमर्पका एव, स्वभावात् । सामान्यजातिविशेषजातिशब्दयोः समभिव्याहारे तु विशेषजातिरेव विशेषणम् , शिंशपावृक्ष इत्यादि ज्ञेयम् । ननु वाग्रहणेन सिद्धे बहुलग्रहणं किमर्थमित्यत आह-बहुलग्रहणादिति । पूर्वापर । पूर्वादयः समानाधिकरणेन समस्यन्त इत्यर्थः । विशेषणसमासेपुरुषस्य प्रधानत्वात् 'राजपुरुषः सुन्दरः' इतिवदनापि समासः स्यात् , स मा भूदिति 'सामान्याप्रयोगे' इत्युक्तमिति भावः । कथं तर्हि 'भाष्याब्धिः कातिगम्भीरः' इति कैयटः । सामान्यप्रयोगसत्त्वेनास्याप्राप्तेः । अत्र केचित् प्रमाद एवायमित्याहुः । इह गाम्भीर्येण सादृश्य न विवक्षितम् , किंतु विततदुरवगाहत्वादिना। तस्य हि विततत्वादेरप्रयोगोऽस्त्येवेति निधिः समास इति मनोरमायां स्थितम् । विशेषणम् । विशि. ष्यते येन तद्विशेषणम् , कर्तुः करणत्वविवक्षायां ल्युट् , तदाह-भेदकमिति । व्यावर्तकमित्यर्थः । विशेषणविशेष्ययोः स संबन्धिकतया अन्यतरोपादानमात्रेणेतराक्षेपसंभवे उभयोरुपादानं स्पष्टार्थमिति कैयटः । एतच्च 'कुत्सितानि कुत्सनैः' इत्यत्रापि तुल्यम् । हरदत्तस्त्वाह-समस्यमानपदद्वयजन्यबोधप्रकारकयोर्विशेषणविशेष्यधर्मयोर्यत्र परस्परव्यभिचारस्तत्रैव समासो यथा स्यात् , नान्यत्रेत्येतदर्थमुभयोपादानम् । तथा च नीलोत्पलादौ समासो भवति, न तु 'तक्षकः सर्पः' इत्यादौ । न हि तक्षकत्वं सर्पत्वं व्यभिचरतीति । तन्मन्दम् । कैलासाद्रिः, मन्दराद्रिः, भावपदार्थः, तर्कविद्या, व्याकरणशास्त्रम् , भोजराजः, इत्यादिधयोगाणामसंगत्यापत्तेः । ननु विशेषणविशष्यभावे कामचारात्पाचकपाठकादाविव नीलोत्पलादावप्यव्यवस्थितः पूर्वनिपातः स्यात् । इति चेदत्राहुः